________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पतयः २१५७-२१८१]
तृतीयं काण्डम्
शाश्वतस्तु ध्रुवो नित्यसदातनसनातनाः स्थास्नुः स्थिरतरः स्थेयानेकरूपतया तु यः २१७० कालव्यापी स कूटस्थः स्थावरो जङ्गमेतरः २१७१ चरिष्णु जङ्गमचरं त्रसमिङ्गं चराचरम्
२१७२ चलनं कम्पनं कम्प्रं चलं लोलं चलाचलम् २१७३ चञ्चलं तरलं चैव पारिप्लवपरिप्लवे
२१७४ अतिरिक्तः समधिको दृढसंधिस्तु संहतः
२१७५ कर्कशं कठिनं क्रूरं कठोरं निष्ठुरं दृढम्
२१७६ जरठं मूर्तिमन्मूर्त प्रवृद्धं प्रौढमेधितम्
२१७७ पुराणे प्रतनप्रत्नपुरातनचिरंतनाः
२१७८ प्रत्यग्रोऽभिनवो नयो नवीनो नूतनो नवः २१७९ नूतश्च सुकुमारं तु कोमलं मृदुलं मृदु
२१८० अन्वगन्वक्षमनुगेऽनुपदं क्लीबमव्ययम् ध्रुवः, नित्यः, सदातनः, सनातनः, इति ५ नित्यस्य ॥-स्थास्नुः, स्थिरतरः, स्थेयान् , इति ३ अतिस्थिरस्यीय एकरूपतया कालव्यापी सकटस्थ इति १॥स्थावरः, जङ्गमेतरः, इति २ अचरस्य ॥-चरिष्णु, जङ्गमम् , चरम् , त्रसम् , इङ्गम् , चराचरम् , इति ६ चरस्य ॥--चलनम् , कम्पनम् , कम्प्रम् , इति ३ कम्पशीलस्य ॥-चलम् , लोलम् , चलाचलम् , चञ्चलम् , तरलम्, पारिप्लवम् , परिशवम् , इति ७ चलस्य ॥-अतिरिक्तः, समधिकः, इति २ अधिकभृतस्य ॥-दृढसंधिः, संहतः, इति २ दृढसंधानयुक्तस्य ॥-कर्कशम् कठिनम् , क्रूरम् , कठोरम् , निष्ठुरम् , दृढम् , जरठम् , मूर्तिमत् , मूर्तम्, इति ९ कठिनस्य ॥ प्रवृद्धम् , प्रौढम् , एधितम् , इति ३ प्रवृद्धस्य ॥-पुराणम् , प्रतनम् , प्रत्नम् , पुरातनम् , चिरन्तनम् , इति ५ पुरातनस्य ॥-प्रत्यग्रः, अभिनवः, नव्यः, नवीनः, नूतनः, नवः, नूनः, इति ७ नूतनस्य ॥-सुकुमारम् , कोमलम् , मृदुलम् , मृदु, इति ४ कोमलस्य ॥--अन्वक् , अन्वक्षम्, अनुगम् , अनुपदम्, इति ४ पश्चादित्यर्थे । अनुपदं क्लीबमव्ययं च ॥-प्रत्यक्षम् ,
For Private and Personal Use Only