________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८४
अमरकोषे
[३. विशेष्यनिम्नवर्गः
समीपे निकटासन्नसंनिकृष्टसनीडवत्
२१५७ सदेशाभ्याशसविधसमर्यादसवेशवत्
२१५८ उपकण्ठान्तिकाभ्याभ्यग्रा अप्यभितोऽव्ययम् २१५९ संसक्ते त्वव्यवहितमपदान्तरमित्यपि
२१६० नेदिष्ठमन्तिकतमं स्याद्रं विप्रकृष्टकम्
२१६१ दवीयश्च दविष्ठं च सुदूरं दीर्घमायतम्
२१६२ वर्तुलं निस्तलं वृत्तं बन्धुरं तून्नतानतम्
२१६३ उच्चप्रांशून्नतोदग्रोच्छ्रितास्तुङ्गेऽथ वामने
२१६४ न्यङ्नीचखर्वहस्वाः स्युरवाग्रेऽवनतानतम् २१६५ अरालं वृजिनं जिह्ममूर्मिमत्कुश्चितं नतम् २१६६ आविद्धं कुटिलं भुग्नं वेल्लितं वक्रमित्यपि २१६७ ऋजावजिह्मप्रगुणौ व्यस्ते त्वप्रगुणाकुलो
२१६८ वम् , विरलम् , तनु, इति ३ विरलस्य ॥-समीपः, निकटः, आसन्नः, सनिकृष्टः, सनीडः, सदेशः, अभ्याशः, सविधः, समर्यादः, सवेशः, उपकण्ठः, अन्तिकः, अभ्यर्णः, अभ्यग्रः, अभितः, इति १५ समीपस्य । तत्राभित इत्यव्ययम् ॥-संसकम्, अव्यवहितम् , अपदान्तरम्, इति ३ संलग्नस्य ।-नेदिष्ठम् , अन्तिकतमम्, इति २ अतिनिकटस्य ॥-दूरम् , विप्रकृष्टकम् , इति २ दूरस्य ॥दवीयः, दविष्ठम् , सुदूरम् , इति ३ अत्यन्तदूरस्य । दीर्घम् , आयतम् , इति २ दीर्घस्य ॥-वर्तुलम् , निस्तलम् , वृत्तम् , इति ३ वर्तुलस्य । उनतानतं स्वभावत उन्नतमुपाधिवशादीषन्नतं तत् बन्धुरमिति १॥-उच्चः, प्रांशुः, उन्नतः, उदग्रः, उच्छ्रितः, तुङ्गः, इति ६ उन्नतस्य ॥-वामनः, न्यक्, नीचः, खर्वः, ह्रखः, इति ५ हस्खस्य ॥-अवाग्रम् , अवनतम् , आनतम् , इति ३ अधोमुखस्य ॥अरालम् , वृजिनम् , जिह्मम् , ऊर्भिमत् , कुच्चितम् , नतम् , आविद्धम् , कुटिलम् , भुग्नम् , वेलितम् , वक्रम् , इति ११ वक्रस्य ॥-ऋजुः, अजिह्मः, प्रगुणः, इति ३ अवक्रस्य ।।-व्यस्तः, अप्रगुणः, आकुलः, इति ३ आकुलस्य॥-शाश्वतः,
For Private and Personal Use Only