SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पङ्क्यः २१३० - २१५६ ] तृतीयं काण्डम् अप्राग्र्यं द्वयीने द्वे अप्रधानोपसर्जने विशङ्कटं पृथु बृहद्विशालं पृथुलं महत् वोरुविपुलं पीनपीनी तु स्थूलपीवरे स्तोकाल्पक्षुल्लकाः सूक्ष्मं श्लक्ष्णं दत्रं कृशं तनु स्त्रियां मात्रा त्रुटि: पुंसि लवलेशकणाणवः अत्यल्पेऽल्पिष्ठमल्पीय: कनीयोऽणीय इत्यपि प्रभूतं प्रचुरं प्राज्यमदत्रं बहुलं बहु पुरुहूः पुरु भूयिष्ठं स्फारं भूयश्च भूरि च परःशताद्यास्ते येषां परा संख्या शतादिकात् गणनीये तु गणेयं संख्याते गणितमथ समं सर्वम् विश्वमशेषं कृत्स्नं समस्त निखिला खिलानि निःशेषम् २१५४ समग्रं सकलं पूर्णमखण्डं स्यादनून के २१५३ २१५५ घनं निरन्तरं सान्द्रं पेलवं विरलं तनु २१५६ १८३ For Private and Personal Use Only २१४४ २१४५ २१४६ २१४७ २१४८ २१४९ २१५० २१५१ २१५२ , उपसर्जनम्, इति अप्रधानस्य । तत्राप्रधानोपसर्जने द्वे द्वयहीने स्त्रीपुंसाभ्यां हीने क्लीबे ॥-विशङ्कटम्, पृथु, बृद्दत्, विशालम्, पृथुलम्, महत्, वडूम्, उरु, विपुलम्, इति ९ विस्तीर्णस्य ॥ पीनम्, पीव, स्थूलम्, पीवरम् इति ४ स्थूलस्य ॥ - स्तोकः, अल्पः, क्षुल्लक:, इति ३ अल्पस्य ॥ सूक्ष्मम्, श्लक्ष्णम्, दभ्रम्, कृशम्, तनु, मात्रा, त्रुटि:, लवः, लेशः, कणः, अणुः, इति ११ सूक्ष्मस्य । मात्रात्रुटी स्त्रियौ । लवादिः पुंसि ॥ - अल्मिष्ठम् अल्पीयः, कनीयः, अणीयः, इति ४ अत्यल्पे ॥ -- - प्रभूतम्, प्रचुरम्, प्राज्यम्, अदभ्रम्, बहुलम्, बहु, पुरुहूः, पुरु, भूयिष्ठम्, स्फारम्, भूयः, भूरि इति १२ बहुलस्य । येषां संख्या शतात्सहस्राच्च परा ते क्रमेण परःशताः, परः सहस्राः स्युरेकैकम् ॥ - गणनीयमू, गणेयम्, इति २ गणयितुं शक्यस्य ॥ - संख्यातम्, गणितम्, इति २ संख्यातस्य ॥ - समम्, सर्वम्, विश्वम्, अशेषम, कृत्स्नम्, समस्तम्, निखिलम्, अखिलम्, निःशेषम्, समग्रम्, सकलम् पूर्णम्, अखण्डम्, अनूनकम्, इति १४ समग्रस्य ॥ घनम्, निरन्तरम्, सान्द्रम्, इति ३ निबिडस्य || - पेल , -- >
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy