________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८०
अमरकोषे [३. विशेष्यनिम्नवर्गः निकृतः स्याद्विप्रकृतो विप्रलब्धस्तु वञ्चितः २१०६ मनोहतः प्रतिहतः प्रतिबद्धो हतश्च सः । अधिक्षिप्तः प्रतिक्षिप्तो बद्धे कीलितसंयतौ
२१०८ आपन्न आपत्प्राप्तः स्यात् कांदिशीको भयद्रुतः २१०९ आक्षारितः क्षारितोऽभिशस्ते संकसुकोऽस्थिरे २११० व्यसनातॊपरक्तौ द्वौ विहस्तव्याकुली समौ २१११ विक्लवो विह्वलः स्यात्तु विवशोऽरिष्टदुष्टधीः
२११२ कश्यः कशाहे संनद्धे त्वाततायी वधोद्यते द्वेष्ये त्वक्षिगतो वध्यः शीर्षच्छेद्य इमौ समौ
२११४ विष्यो विषेण यो वध्यो मुसल्यो मुसलेन यः
२११५ शिश्विदानोऽकृष्णकर्मा चपलश्चिकुरः समौ दोका पुरोभागी निकृतस्त्वनृजुः शठः २११७ निराकृतस्य ।—निकृतः, विप्रकृतः, इति २ विवर्णीकृतस्य ॥-विप्रलब्धः, वञ्चितः, इति २ वश्चनं प्राप्तस्य ॥-मनोहतः, प्रतिहतः, प्रतिबद्धः, हतः, इति ४ मनसि हतस्य ॥-अधिक्षिप्तः, प्रतिक्षिप्तः, इति २ कृताक्षेपस्य ॥बद्धः, कीलितः. संयतः, इति ३ रजवादिना निबद्धस्य॥-आपन्नः,आपत्प्राप्तः, इति २ आपदं गतस्य ।।-कांदिशीकः, भयद्रुतः, इति २ भयात्पलायितस्य ॥-आक्षारितः, क्षारितः, अभिशस्तः, इति ३ लोकापवादेन दूषितस्य ॥-संकसुकः, अस्थिरः, इति २ चलप्रकृतेः । व्यसनातः, उपरक्तः, इति २ व्यसनपीडितस्य ॥-विहस्तः, व्याकुलः, इति २ शोकादिभिरितिकर्तव्यतामूढस्य ॥-विक्लवः, विह्वलः, इति २ शोकादिना गात्रभङ्गं प्राप्तम्य ॥- विवशः, अरिष्टदुष्टधीः, इति २ आसन्नमरणदूषितबुद्धेः ॥---कश्यः, कशाहः, इति २ कशाघातमहतः । वधोद्यते संनद्धे आततायीति १॥द्वेष्यः, अक्षिगतः, इति २ द्वेषाहस्य । वध्यः, शीर्षच्छेद्यः, इति २ वधार्हस्य। यो विषेण वध्यः स विष्य इति १ । यो मुसलेन वध्यः स मुसल्य इति १। शिश्विदानः, अकृष्णकर्मा, इति २ पुण्यकर्मणः ॥-चपलः, चिकुरः, इति २ चपलस्य ॥-दोषैकदृक्, पुरोभागी, इति २ दोषमात्रं पश्यतः ॥-.
For Private and Personal Use Only