________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पङ्कयः १९७४-१९९७ ] द्वितीयं काण्डम्
जतुत्रपुविकारे तु जातुषं त्रापुषं त्रिषु पिटकः पेटकः पेटा मञ्जूषाथ विहङ्गिका भारयष्टिस्तदालम्ब शिक्यं काचोऽथ पादुका पादूरुपानत्स्त्री सैवानुपदीना पदायता नधी वधी वरत्रा स्यादश्वादेस्ताडनी कशा चण्डालिका तु कण्डोलवीणा चण्डालवल्लकी नाराची स्यादेषणिका शाणस्तु निकषः कषः ब्रश्चनः पत्र परशुरीपिका तूलिका समे तैजसावर्तनी मूषा भस्त्रा चर्मप्रसेविका आस्फोटनी वेधनिका कृपाणी कर्तरी समे वृक्षादनी वृक्षभेदी टङ्कः पाशणदारणः
१६९
For Private and Personal Use Only
११८७
१९८८
१९८९
१९९०
१९९१
१९९२
१९९३
१९९४
१९९५
१९९६
१९९७
आदिना चर्मकाष्ठमृच्छिलेत्यादिग्रहणम् । जतुविकारो जातुषम् १ । त्रपुविकारस्त्रापुषम् १॥ - पिटकः, पेटकः, पेटा, मञ्जूषा, इति ४ वस्त्रालङ्कारादिस्थापनमञ्जुपायाः ॥ विङ्गिका, भारयष्टिः, इति २ शिक्याधारलगुडस्य। तस्यां भारयष्ट्यामालम्बते शिक्यम, काचः, इति २ ॥ - पादुका, पादू:, उपानम् इति ३ पादत्राणस्य । संवोपानत् पदायता अनुपदीना इति १ ॥— नधी, बधी, तरत्रा, इति ३ चर्ममय्या रज्वाः ॥ -- अश्वादेस्ताडनी रज्जुः कशा स्यात् ५ ॥ चाण्डालिका, कण्डोलवीणा, चण्डालवल्लकी, इति ३ किंनर्याख्याया अन्त्यजवीणायाः ॥ - नाराची, एषणिका, इति २ स्वर्णकाराणां नाराचाकृतिलोहशलाकायाः ॥ - शाणः, निकषः, कषः, इति ३ स्वर्णघर्षणशिलायाः ॥ - ब्रश्वनः, पत्रपरशुः, इति २ स्वर्णादिच्छेदनार्थस्य परशोः ॥ — ईषिका, तूलिका, इति २ शलाकाभेदस्य । तैजसावर्तनी मूषा स्यात् १ ॥ भस्त्रा, चर्मप्रसेविका, इति २ अग्निज्वलनार्थस्य चर्मप्र सेवकस्य ॥-आस्फोटनी, वेधनिका, इति २ मण्यादेर्वेधोपयुक्तस्य शस्त्र मेदस्य ॥कृपाणी, कर्तरी, इति २ कर्तर्याः ॥ वृक्षादनी, वृक्षभेदी, इति २ वृक्षभेदनार्थस्य शस्त्रभेदस्य ॥ - टङ्कः, पाषाणदारणः, इति २ पाषाणदारणा