________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८१७
पतयः १७९८ - १८२१] द्वितीयं काण्डम् पयस्यमाज्यदध्यादि द्रप्सं दधि घनेतरत्
१८०९ घृतमाज्यं हविः सर्पिनेवनीतं नवोद्धृतम्
१८१० तत्तु हैयंगवीनं यद्ध्योगोदोहोद्भवं घृतम्
१८११ दण्डाहतं कालशेयमरिष्टमपि गोरसः
१८१२ तकं ह्युदश्विन्मथितं पादाम्ब्बर्धाम्बु निर्जलम् १८१३ मण्डं द्रधिभवं मस्तु पीयूषोऽभिनवं पयः १८१४ अशनाया बुभुक्षा क्षुद्रासस्तु कवलः पुमान् १८१५ सपीतिः स्त्री तुल्यपानं सग्धिः स्त्री सहभोजनम्
१८१६ उदन्या तु पिपासा तृट् तर्षो जग्धिस्तु भोजनम् जेमनं लेह आहारो निघसो न्याद इत्यपि १८१८ सौहित्यं तर्पणं तृप्तिः फेला भुक्तसमुज्झितम् १८१९ कामं प्रकामं पर्याप्तं निकामेष्टं यथेप्सितम् १८२० गोपे गोपालगोसंख्यगोधुगाभीरबल्लवाः
१८२१ पयः, इति ३ दुग्धस्य । यदाज्यदध्याद तत् पयस्यम् १ । यद्धनादितरत् दधि तत् द्रप्सं स्यात् १ । घृतम्, आज्यम् , हविः, सर्पिः, इति ४ घृतस्य ।।नवनीतम् , नवोद्धृतम् , इति २ नवनीतम्य । ह्योगोदोहोद्भवं घृतं हैयङ्गवीनं स्यात् १॥--दण्डाहतम् , कालशेयम् , अरिष्टम् , गोरसः, इति ४ दण्डमथितस्य गोरसमात्रस्य । तद्विशेषमाह-पादाम्बु यत्र तद्दण्डाहतं तक्रमिति १। अधोम्बु यत्र गोरसे तदुदश्वित् १ । निर्जलं दधिमन्थनमात्रेण मथितमिति १ । दधिभवं मस्तु स्यात् १ । अभिनवं पयःपीयूषः स्यात् १॥-अशनाया, बुभुक्षा,क्षुत , इति ३ क्षुधः,क्षुत् स्त्री धकारान्तः । प्रासः, कवलः, इति २ कवलस्य ॥-सपीतिः, तुल्यपानम् , इति २ सहपानस्य ॥ सग्धिः, सहभोजनम् , इति २ सहभोजनस्य॥उदन्या, पिपासा, तृद, तर्षः, इति ४ तृषः।-जग्धिः , भोजनम् , जेमनं, लेहः, आहारः, निघसः, न्यादः, इति ७ भोजनस्य ॥-सौहित्यम् , तर्पणम् , तृप्तिः, इति ३ तृप्तेः । पूर्व भुक्तं पश्चात् समुज्झितं फेला स्य त् १॥-कामम् , प्रकामम् , पर्याप्तम् , निकामम् , इष्टम् , यथेप्सितम्, इति ६ यथेप्सितस्य ॥-गोपः, गोपालः, गोसंख्यः, गोधुक् , आभीरः, बालवः, इति ६ गोपालस्य ॥-गोमहिष्यादिकं
For Private and Personal Use Only