________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५४
अम कोषे
[१०. वैश्यवर्गः
स्यात्पिच्छिलं तु विजिलं संमृष्टं शोधितं समे
१७९८ चिक्कणं मसणं स्निग्धं तुल्ये भावितवासिते १७९९ आपकं पौलिरभ्यूषो लाजाः पुंभूम्नि चक्षिताः १८०० पृथुकः स्याच्चिपिटको धाना भृष्टयवे स्त्रियः पूपोऽपूपः पिष्टकः स्यात् करम्भो दधिसक्तवः १८०२ भिःसा स्त्री भक्तमन्धोऽन्नमोदनोऽस्त्री स दीदिविः १८०३ भिःसटा दग्धिका सर्वरसाग्रे मण्डमस्त्रियाम् १८०४ मासराचामनिस्रावा मण्डे भक्तसमुद्भवे
१८०५ यवागूरुष्णिका श्राणा विलेपी तरला च सा १८०६ 'म्रक्षणाभ्यञ्जने तैलं कृसरस्तु तिलौदन'
** गव्यं त्रिषु गवां सर्व गोविट् गोमयमस्त्रियाम् तत्तु शुष्कं करीषोऽस्त्री दुग्धं क्षीरं पयः समम् १८०८ विजिलम् , इति २ मण्डयुक्तदध्यादेः ॥-संमृष्टम् , शोधितम् , इति २ केशकीटाद्यपनयनेन शोधितस्यानादेः॥-चिकणम् , मसृणम् , स्निग्धम् , इति ३ स्निग्धस्य ॥-भावितम् , वासितम्, इति २ पुष्पादिद्रव्यान्तरेणाधिवासितस्य । यथा धूपेन भावितास्तिलाः ॥-आपक्वम् , पौलि , अभ्यूषः, इति ३ अर्धविनयवादेः । लाजाः भर्जितव्रीहयः १। पुंसि बहुत्वे । एवमक्षता अपि पुं-भूम्नि ॥-पृथुकः, चिपिटकः, इति २ आर्द्रभृष्टवीहितण्डुलस्य । धाना इति भृष्टयवे १ । नित्यं त्रियां बहुत्वे च ॥-पूपः, अपूपः, पिष्टकः, इति ३ तण्डुलपिष्टरचितस्य भक्ष्यभेदस्य । दधियुक्ताः सक्तवः करम्भः स्यात् १॥-भिःसा, भक्तम् , अन्धः, अन्नम् , ओदनः, दीदिविः, इति ६ अन्नस्य । अन्धः सान्तम् । ओदनोऽस्त्री । दीदिविः, पुंसि ॥-भिःसटा, दग्धिका, इति २ दग्धान्नस्य ॥--सर्वेषां रसानामग्रं अग्रिमो द्रवो मण्ड: स्यात् १। स पुं-नपुंसकयोः । मासरः, आचामः, निस्रावः, इति ३ भक्तसमुद्भवे मण्डे ॥ यवागूः, उष्णिका, श्राण, विलेपी, तरला, इति ५ द्रवदोदनस्य । गवां सर्व गव्यं स्यात् १। त्रिषु ॥-गोविट्, गोमयम्, इति २ गोः पुरीये। गोमयं पुं-नपुंसकयोः। तद्गोमयं शुष्कं करीषं स्यात् १॥ दुग्धम् , क्षीरम् ,
For Private and Personal Use Only