________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमरकोषे
[१०. वैश्यवर्गः
سم اس
गोमहिष्यादिकं पादबन्धनं द्वौ गीश्वरे १८२२ गोमान् गोमी गोकुलं तु गोधनं स्याद्गवां व्रजे त्रिवाशितंगवीनं तद्गावो यत्राशिताः पुरा १८२४ उक्षा भद्रो बलीवर्द ऋषभो वृषभो वृषः
१८२५ अनड़ान् सौरभेयो गौरुक्ष्णां संहतिरीक्षकम् १८२६ गव्या गोत्रा गवां वत्सधेन्वोत्सिकधैनुके १८२७ वृषो महान् महोक्षः स्याद्वृद्धोक्षस्तु जरद्गवः १८२८ उत्पन्न उक्षा जातोक्षः सद्योजातस्तु तर्णकः १८२९ शकृत्करिस्तु वत्सः स्याद्दम्यवत्सतरौ समो १८३० आर्षभ्यः षण्डतायोग्यः षण्डो गोपतिरिट्चरः स्कन्धदेशे त्वस्य वहः सास्ना तु गलकम्बलः स्यान्नस्तितस्तु नस्योतः प्रष्ठवाड् युगपार्श्वगः १८३३ युगादीनां तु वोढारो युग्यप्रासङ्ग्यशाकटाः १८३४ पादबन्धनमिति ॥-गोमान् , गोमी, इति २ गवां स्वामिनि ॥-गोकुलम् , गोधनम् , इति २ गवां व्रजे। यत्र पुरा गाव आशिता भोजिताः तत्स्थानं आशितंगवीनमिति १ लिङ्गत्रये ॥---उक्षा, भद्रः, बलीवर्दः, ऋषभः, वृषभः, वृषः, अनड्वान् , सौरभेयः, गौः, इति ९ वृषभस्य । उक्ष्णां संहतिः, औक्षकं स्यात् १ । गवां संहतिः समूहो गव्या, गोत्रा, इति २ । वत्सानां संहतिर्वात्सकम् १ । धेनूनां संहतिर्धनुकम् १ । महान्वृषो महोक्षः १ ॥-वृद्धोक्षः, जरद्गवः, इति २ वृद्धवृषभस्य ॥-उत्पन्नः उक्षा जातोक्षः स्यात् १। सद्योजातस्तर्णका स्यात् १ ॥---शकृत्करिः, वत्सः, इति २ वत्सस्य ॥--दम्यः, वत्सतरः, इति २ स्पष्टतारुण्यस्य । षण्डता गोपतित्वं तद्योग्य आर्षभ्यः १॥-षण्डः, गोपतिः, इट्चरः, इति ३ खेच्छाचारिणो वृपभस्य। अस्य स्कन्धदेशे वहः स्यात् १॥सास्ना, गलकम्बल:, :ति २ गोः कण्ठे लम्बमानस्य चर्मणः।-नस्तितः, नस्योतः, इति २ स्यूतनासिकस्य ॥-प्रष्टवाद , युगपार्श्वगः, इति २ दमनार्थ युग्येन सह स्कन्धे नरकाषा । युगस्य वोढा यग्यः, प्रासङ्गया,
For Private and Personal Use Only