________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५२
अमरकोषे
[१०. वैश्यवर्गः दर्विः कम्बिः खजाका च स्यात्तारुहस्तकः । अस्त्री शाकं हरितकं शिरस्य तु नाडिका १७७५ कलम्बश्च कडम्बश्च वेसवार उपस्करः
१७७६ तिन्तिडीकं च चुकं च वृक्षाम्लमथ वेल्लजम् १७७७ मरीचं कोलकं कृष्णमूषणं धर्मपत्तनम्
१७७८ जीरको जरणोऽजाजी कणा कृष्णे तु जीरके १७७९ सुषवी कारवी पृथ्वी पृथुः कालोपकुञ्चिका १७८० आर्द्रकं शृङ्गवेरं स्यादथ छत्रा वितुन्नकम्
१७८१ कुस्तुम्बुर च धान्याकमथ शुण्ठी महौषधम् १७८२ स्त्रीनपुंसकयोर्विश्वं नागरं विश्वभेषजम्
१७८३ आरनालकसौवीरकुल्माषाभिषुतानि च
१७८४ अवन्तिसोमधान्याम्लकुञ्जलानि च काञ्जिके १७८५
भाण्डम् , पात्रम् , अमत्रम्, इति ५ भाण्डस्य ॥–दर्विः, कम्बिः, खजाका, इति ३ दव्याः ।।-तदूः, दारुहस्तकः, इति २ दर्षिभेदस्य - शाकम् , हरितकम् , शिग्रुः, इति ३ वास्तुकादेः शाकस्य । सौभाजनेऽपि शिग्रुरुक्तः । अस्य नाडिका कलम्बः, कडम्बः, इति २॥-वेसवारः, उपस्करः, इति २ हरिदासर्षपमरीचादिचूर्णस्य ॥-तिन्तिडीकम् , चुक्रम् , वृक्षा. म्लम् , इति ३ तिन्तिडीकस्याम्लभेदस्य ॥-वेलजम् , मरीचम् , कोल. कम् , कृष्णम् , ऊषणम् , धर्मपत्तनम्, इति ६ मरीचस्य ॥-जीरकः, जरणः, अजाजी, कणा, इति ४ जीरकस्य ॥--सुषवी, कारवी, पृथ्वी, पृथुः, काला, उपकुच्चिका, इति ६ कृष्णवर्णे जीरके । आर्द्रकम् , शृङ्गवेरम् , इति २ आर्द्रकस्य ॥--छत्रा, वितुन्नकम् , कुस्तुम्बुरु, धान्याकम् , इति ४ धान्याकस्य ॥–शुण्ठी, महौषधम् , विश्वम्, नागरम्, विश्वमेषजम्, इति ५ शुण्ठ्याः । स्त्री-नपुंसकयोः ॥-आरनालकम् , सौवीरम्, कुल्माषाभिषुतम्, अवन्तिसोमम , धान्याम्लम् , कुजलम् , काजिकम् , इति ७ कालिकस्य ॥
For Private and Personal Use Only