________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पतयः १७५१-१७७३] द्वितीयं काण्डम्
आरालिका आन्धसिकाः सूदा औदनिका गुणाः १७६२ आपूपिकः कान्दविको भक्ष्यकार इमे त्रिषु १७६३ अश्मन्तमुद्धानमधिश्रयणी चुल्लिरन्तिका १७६४ अङ्गारधानिकाङ्गारशकट्यपि हसन्त्यपि
१७६५ हसन्यप्यथ न स्त्री स्यादङ्गारोऽलातमुल्मुकम् १७६६ क्लीवेऽम्बरीषं भ्राष्ट्रो ना कन्दुर्वा स्वेदनी स्त्रियाम् १७६७ अलिञ्जरः स्यान्मणिकः कर्कर्यालुर्गलन्तिका १७६८ पिठरः स्थाल्युखा कुण्डं कलशस्तु त्रिषु द्वयोः १७६९ घटः कुटनिपावस्त्री शरावो वर्धमानकः
१७७० ऋजीषं पिष्टपचनं कंसोऽस्त्री पानभाजनम् १७७१ कुतूः कृत्तेः स्नेहपात्रं सैवाल्पा कुतुपः पुमान् १७७२ सर्वमावपनं भाण्डं पात्रामत्रं च भाजनम्
१७७३ स्यात् १॥-सूपकारः, बल्लवः, आरालिकः, आन्धसिकः, सूदः, औदनिकः, गुणः इति ७ पाककर्तुः ॥-आपूपिकः, कान्दविकः, भश्यकारः, इति ३ भक्ष्यकारस्य । इमे त्रिषु ॥ अश्मन्तम् , उद्धानम् , अधिश्रयणी, चुलिः, अन्तिका, इति ५ चुल्लेः ॥-अङ्गारधानिका, अङ्गारशकटी, हसन्ती, हसनी, इति ४ अङ्गारशकट्याः ॥ अङ्गारः, अलातम् , उल्मुकम्, इति ३ प्रज्वलत्काष्टस्य ॥-अम्बरीषम्, भ्राष्ट्रः, इति २ चणकादिभजेनपात्रस्य ॥--- कन्दुः, खेदनी, इति २ मद्यनिर्माणोपयोगिपात्रस्य ॥-अलिञ्जरः, मणिकः, इति २ महाकुम्भस्य ॥-करी, आलुः, गलन्तिका, इति ३ गलन्तिकायाः॥-पिठरः, स्थाली, उखा, कुण्डम् , इति ४ स्थाल्याः ॥कलशः, घटः, कुटः, निपः, इति ४ कलशस्य । कलशस्त्रिषु । घटः स्त्रीपुंसयोः ।।--शरावः, वर्धमानकः, इति २ पात्रभेदस्य। शरावः पुंन्नपुंसकयोः॥ऋजीषम् , पिष्टपचनम्, इति २ पिष्टपाकोपयोगिनः पात्रस्य ॥-कंसः, पानभाजनम्, इति २ पानपात्रस्य ।।-कृत्तेः स्नेहपाने कुतूः स्यात् १। सैद कुतूरल्पा चेत् कुतुपः । सर्व पात्रमात्रमावपनादिसंज्ञम् १ ॥ आवपनम् ,
For Private and Personal Use Only