________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५०
अमरकोपे
[१०. वैश्यवर्गः
कडङ्गरो बुसं क्लीबे धान्यत्वचि तुषः पुमान् १७५१ शूकोऽस्त्री श्लक्ष्णतीक्ष्णाग्रे शमी शिम्बा त्रिषूत्तरे १७५२ ऋद्धमावसितं धान्यं पूतं तु बहुलीकृतम्
१७५३ माषादयः शमीधान्ये शूकधान्ये यवादयः १७५४ शालयः कलमाद्याश्च षष्टिकाद्याश्च पुंस्यमी १७५५ तृणधान्यानि नीवाराः स्त्री गवेधुर्गवेधुका १७५६ अयोग्रं मुसलोऽस्त्री स्यादुदूखलमुलूखलम् १७५७ प्रस्फोटनं शूर्पमस्त्री चालनी तितउः पुमान् १७५८ स्यूतप्रसेवौ कण्डोलपिटौ कटकिलिञ्जको १७५९ समानौ रसवत्यां तु पाकस्थानमहानसे
१७६० पौरोगवस्तदध्यक्षः सूपकारास्तु बल्लवाः
१७६१ २ । सकाण्डो निष्फलः पलालः स्यात् १ ॥-कड गरः, बुसम् , इति २ पलालादिक्षोदस्य । घुसं क्लीबेऽपि । धान्यत्वचि तुष इति १ । लक्ष्णं तीक्ष्णं यदग्रं तत्र शक इति १ क्लीब-पुंसोः ॥-शमी, शिम्बा, इति २ शिम्बायाः। उत्तरे ऋद्धादयश्चत्वारस्त्रिषु ॥-ऋद्धम् , आवसितम्, इति २ अपनीततृणस्य राशीकृतस्य धान्यस्य ।।-पूतम्, बहुलीकृतम्, इति २ अपनीतबुसस्य धान्यस्य । शमीप्रभवे धान्ये माषमुद्रादयो भेदाः । शूकसहितं धान्य यवगोधूमादयो झेयाः । कलमाद्याः षष्टि काद्याः शालयः स्युः १ । अमी पुंसि । नीवाराः बहुवचनात् श्यामाकादयो तृणधान्यानि स्युः ॥-गवेधुः, गवे. धुका, इति २ मुन्यन्नविशेषस्य ॥-अयोग्रम् , मुसलः, इति २ मुसलस्य। क्लीबे मुसलम् ॥-उदूखलम् , उलूखलम्, इति २ उलूखलस्य॥-प्रस्फोटनम् , शूर्पम्, इति २ शूर्पस्य ।।-चालनी, तितउः, इति २ चालन्याः ॥–स्यूतः, प्रसेवः, इति २ धान्यादिभरणार्थ कृतस्य वस्त्रभाण्डस्य ॥ कण्डोलः, पिटः, इति २ वेणुवलादिरचितभाण्डस्य ॥--कटः, किलिञ्जकः, इति २ वंशादिविकारस्य । समानाविति स्यूतादिभिर्युगलैः संबध्यते ॥-रसवती, पाकस्थानम्, महानसम् , इति ३ पाकस्थानस्य । तस्याध्यक्षः पौरोगवः
For Private and Personal Use Only