________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पतयः १७२५-१७५० ] द्वितीयं काण्डम् तोक्मस्तु तत्र हरिते कलायस्तु सतीनकः १७३८ हरेणुखण्डिको चास्मिन्कोरदूषस्तु कोद्रवः १७३९ मङ्गल्यको मसूरोऽथ मकुष्टकमयुष्टको
१७४० वनमुन्द्रे सर्षपे तु द्वौ तन्तुभकदम्बको
१७४१ सिद्धार्थस्त्वेष धवलो गोधूमः सुमनः समौ १७४२ स्याद्यावकस्तु कुल्मापश्चणको हरिमन्थकः १७४३ द्वौ तिले तिलपेजश्च तिलपिञश्च निष्फले १७४४ क्षवः क्षुताभिजननो राजिका कृष्णिकासुरी १७४५ स्त्रियो कङ्गुप्रियङ्ग द्वे अतसी स्यादुमा रुमा १७४६ मातुलानी तु भङ्गायां व्रीहिभेदस्त्वणुः पुमान् १७४७ किंशारुः सस्यशूकं स्यात् कणिशं सस्यमञ्जरी १७४८ धान्यं व्रीहिः स्तम्बकरिः स्तम्बो गुच्छस्तृणादिनः १७४९ नाडी नालं च काण्डोऽस्य पलालोऽस्त्री स निष्फलः १७५० शितशूकः, यवः, इति २ यवानाम् । तत्र यवे हरिते तोक्म इति १॥कलायः, सतीनकः, हरेणुः, [ रेणुकः ], इति ४ रेणुकस्य ॥-कोरदूषः, कोद्रवः, इति २ कोद्रवस्य । मङ्गल्यकः, मसूरः, इति २ मसूरस्य ॥-मकुष्टकः, मयुष्टकः, वनमुद्गः, इति ३ वनमुद्स्य , ॥-सर्षपः, तन्तुभः, कदम्बकः, इति ३ सर्षपस्य । एष सर्षपो धवलः सिद्धार्थ इति १॥-गोधूमः, सुमनः, इति २. गोधूमस्य । सुमनो दन्तः॥-- यावकः, कुल्माषः, इति २ अर्धसिनस्य यवादेः ॥-चणकः, हरिमन्थकः, इति २ चणकस्य ।।--तिलपेजः, तिलपिजः, इति २ निष्फले.तिले ॥ क्षषः, अताभिजननः, राजिका, कणिका, भासुरी, इति... कृष्णसर्षपस्य ॥-कङ्गुः, प्रियनुः, इति २ प्रियकोः, ॥-अतसी, उमा, क्षुमा, इति ३ अतस्याः ॥---मातुलानी, भङ्गा, इति २ भङ्गायाः ॥ व्रीहिभेदः अणुः स्यात् १। सस्यस्य शूकं किंशारुः स्यात् १। सस्यस्य मजरी कणिशमिति १॥ --धान्यम् , व्रीहिः, स्तम्बकरिः, इति ३. वीहियवादेः । स्तम्बकरिः पुंसि । तृणयवादेगुच्छस्य स्तम्बः स्यात् १ । अस्य गुच्छस्य यः काण्डः स नाही, नालम् , इति
For Private and Personal Use Only