________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४६
अमरकोषे
[१०. वैश्यवर्गः
अन्तो नाशो द्वयोर्मृत्युर्मरणं निधनोऽस्त्रियाम् १७०० परासुप्राप्तपञ्चत्वपरेतप्रेतसंस्थिताः
१७०१ मृतप्रमीतौ त्रिष्वेते चिता चित्या चितिः स्त्रियाम् १७०२ कबन्धोऽस्त्री क्रियायुक्तमपमूर्धकलेवरम्
१७०३ श्मशानं स्यात्पितृवनं कुणपः शवमस्त्रियाम्
१७०४ प्रग्रहोपग्रही बन्द्यां कारा स्याद्वन्धनालये
१७०५ पुंसि भूम्यसवः प्राणाश्चैवं जीवोऽसुधारणम् १७०६ आयुर्जीवितकालो ना जीवातुर्जीवनौषधम् १७०७
१०. वैश्यवर्गः ऊरव्या ऊरुजा अर्या वैश्या भूमिस्पृशो विशः १७०८ आजीवो जीविका वार्ता वृत्तिर्वर्तनजीवने १७०९ स्त्रियां कृषिः पाशुपाल्यं वाणिज्यं चेति वृत्तयः १७१० सेवा श्ववृत्तिरनृतं कृषिञ्छशिलं त्वृतम्
१७११ अत्ययः, अन्तः, नाशः, मृत्युः, मरणम्, निधनः, इति १० मरणस्य । तत्र मृत्युद्धयोः । निधनमस्त्रियाम् ॥--परासुः, प्राप्तपञ्चत्वः, परेतः, प्रेतः, संस्थितः, मृतः, प्रमीतः, इति ७ मृतस्य । एते त्रिषु ॥-चिता, चित्या, चितिः, इति ३ प्रेतदाहाधारचुल्लेः । अपमूर्ध नर्तन क्रियायुक्तं यत्कलेवरं स कबन्धः स्यात् , इति । पुं-नपुंसकयोः ॥–श्मशानम् , पितृवनम् , इति २ प्रेतभूमेः ॥-कुणपः, शवम् , इंति २ निर्जीवशरीरस्य । शवं पुं-नपुंसकयोः ॥-प्रग्रहः, उपग्रहः, बन्दी, इति ३ चौरादेराकर्षणस्य । बन्धनगेहे कारेति ॥-असवः, प्राणाः, इति २ प्राणानाम् । उभे भूनि । जीवः, असुधारणम् , इति २ प्राणधारणस्या जीवितावच्छिन्नः काल आयुः स्यात् १। जीवितस्योषधं जीवातुः स्यात् १। ना पुमान् ।
१७०८-१९२९ ऊरव्यः, ऊरुजः, अर्यः, वैश्यः, भूमिस्पृक्, विद , इति ६ वैश्यस्य ॥ आजीवः, जीविका, वार्ता, वृत्तिः, वर्तनम् , जीवनम् , इति ६ जीविकामात्रस्य ॥-कृषिः, पाशुपाल्यम् , वाणिज्यम् , इति ३ वैश्यानां वृत्तयः। सेवा श्ववृत्तिरिति १। कृषिरनृतं स्यात् १। उन्छशिलं ऋतमित्युच्यते ।
For Private and Personal Use Only