________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४४
ममरकोपे
[९. क्षत्रियवर्गः
शक्तिः पराक्रमः प्राणो विक्रमस्त्वतिशक्तिता १६७२ वीरपानं तु यत्पानं वृत्ते भाविनि वा रणे १६७३ युद्धमायोधनं जन्यं प्रधनं प्रविदारणम्
१६७४ मृधमास्कन्दनं संख्यं समीकं सांपरायिकम् १६७५ अस्त्रियां समरानीकरणाः कलहविग्रही संप्रहाराभिसंपातकलिसंस्फोटसंयुगाः अभ्यामर्दसमाघातसङ्ग्रामाभ्यागमाहवाः
१६७८ समुदायः स्त्रियः संयत्समित्याजिसमिधुधः १६७९ नियुद्धं बाहुयुद्धेऽथ तुमुलं रणसंकुले श्वेडा तु सिंहनादः स्यात् करिणां घटना घटा १६८१ क्रन्दनं योधसंरावो बृंहितं करिगर्जितम् १६८२ विस्फारो धनुषः स्वानः पटहाडम्बरौ समौ प्रसभं तु बलात्कारो हठोऽथ स्खलितं छलम् १६८४ अजन्यं क्लीबमुत्पात उपसर्गः समं त्रयम्
१६८५ शक्तिः, पराक्रमः, प्राणः, इति १० पराक्रमस्य ॥-विक्रमः, अतिशक्तिना, इति २ अतिपराक्रमस्य।रणे वृत्ते सति भाविनि वा रणे तदुत्साहवृद्ध्यर्थं यद्वीराणां मद्यपानं तत् वीरपानं स्यात् १॥-युद्धम् , आयोधनम् ,जन्यम् ,प्रधनम्, प्रविदारणम्, मृधम् , आस्कन्दनम् , सङ्ख्यम् , समीकम् , सांपरायिकम् , समरः, अनीकः, रणः, कलहः, विग्रहः, संप्रहारः, अभिसंपातः, कलिः, संस्फोटः, संयुगः, अभ्यामर्दः, समाघातः, संग्रामः, अभ्यागमः, आहवः, समुदायः, संयत् , समितिः, आजिः, समित् ,युत् , इति ३१ युद्धस्य। समरादित्रयं अस्त्रियाम् ॥--नियुद्धम् , बाहुयुद्धम् , इति २ बाहुयुद्धस्या तुमुलमिति रणस्य संकुले १॥-वेडा, सिंहनादः, इति २ वीराणां सिंहनादतुल्यनादस्य। करिणां घटना युद्धे संघट्टनं घटा स्यात् ११ योधानां संरावः स्पर्धयाऽऽह्वानं क्रन्दनं स्यात् १। करिणां गर्जितं बृंहितं स्यात् १ । धनुषः शब्दो विस्फार इति ॥-पटहः, आडम्बरः, इति २ संग्रामध्वनेः।प्रसभम् , बलात्कारः, हठः, इति ३ बलात्कारस्य ॥-स्खलितम् , छलम् , इति २ युद्धमर्यादायाश्चलनस्य ।-अजन्यम् , उत्पातः, उपसर्गः, इति ३ उत्पा
For Private and Personal Use Only