________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पतयः १६४६-१६७१] द्वितीयं काण्डम् स्यादामारः प्रसरणं प्रचक्रं चलितार्थकम्
१६५९ अहितान्प्रत्यभीतस्य रणे यानमभिक्रमः वैतालिका बोधकराश्चाक्रिका घाण्टिकार्थकाः १६६१ स्युगिधास्तु मगधा बन्दिनः स्तुतिपाठकाः १६६२ संशप्तकास्तु समयात्सङ्ग्रामादनिवर्तिनः
१६६३ रेणुद्धयोः स्त्रियां धूलिः पांशुर्ना न द्वयो रजः १६६४ चूर्णे क्षोदः समुत्पिञ्जपिञ्जलौ भृशमाकुले १६६५ पताका वैजयन्ती स्यात् केतनं ध्वजमस्त्रियाम् १६६६ सा वीराशंसनं युद्धभूमिर्याऽतिभयप्रदा
१६६७ अहंपूर्वमहंपूर्वमित्यहपूर्विका स्त्रियाम्
१६६८ आहोपुरुषिका दाद्या स्यात्संभावनात्मनि १६६९ अहमहमिका तु सा स्यात् परस्परं यो भवत्यहंकारः १६७० द्रविणं तरः सहोबलशौर्याणि स्थाम शुष्मं च १६७१ इति ६ प्रयाणस्य ॥--आसारः, प्रसरणम् , इति २ सैन्यस्य सर्वतोव्याप्तेः ॥ प्रचक्रम् , चलितम् , इति २ प्रस्थितसैन्यस्य । रणे अहितान्प्रति भयरहितम्य शूरस्य यद्गमनं सोऽभिकम इति १॥-वैतालिकाः, बोधकराः, इति २ प्रातः स्तुतिपाठेन वोधकानाम् ॥-चाक्रिकाः, घाण्टिकाः, इति २ बन्दिविशेषेषु। मागधाः, मगधाः, इति २ राजवंशक्रमस्तावकानाम्॥-बन्दिनः, स्तुतिपाठकाः, इति २ राजादिस्तुतिपाठकेषु । समयात्सङ्ग्रामादनिवर्तिनः संशप्तकाः स्युः १॥ रेणुः, धूलिः, पांशुः, रजः, इति ४ धूल्याः । रेणुः स्त्रीपुंसयोः। धूलिः बियाम् । पांशुः पुंसि । रजः क्लीबे ॥-चूर्णम् , क्षोदः, इति २ पिष्टस्य रजसः । चूर्णः पुंस्यपि ॥-समुत्पिनः, पिञ्जलः, इति २ अत्यन्तमाकुले सैन्यादी॥-पताका, वैजयन्ती, केतनम् , ध्वजम् , इति ४ पताकायाः। ध्वजः पुनपुंसकयोः । या युद्धभूमिः अतिभयदा सा वीराशंसनं स्यात् १ । अहंपूर्वमहंपूर्वीमति युद्धं अहंपूर्विका स्यात् १ । स्त्रियाम् । दोदात्मविषये या संभावना सा आहोपुरुषिकेत्युच्यते १। यः परस्परम् 'अहं शक्तोऽहं शक्तः' इत्यहंकारः सा अहमहमिका स्यात् १॥-द्रविणम् , तरः, सहः, बलम्, शौर्यम् ,स्थाम, शुष्मम् ,
For Private and Personal Use Only