SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पलयः १५६६-१५९१] द्वितीयं काण्डम् चक्रं रथाङ्गं तस्यान्ते नेमिः स्त्री स्यात्प्रधिः पुमान् १५७९ पिण्डिका नाभिरक्षाग्रकीलके तु द्वयोरणिः १५८० रथगुप्तिर्वरूथो ना कूबरस्तु युगंधरः १५८१ अनुकर्षो दार्वधःस्थं प्रासङ्गो ना युगायुगः १५८२ सर्व स्याद्वाहनं यानं युग्यं पत्रं च धोरणम् १५८३ परम्परावाहनं यत्तद्वैनीतकमस्त्रियाम् । १५८४ आधोरणा हस्तिपका हस्त्यारोहा निषादिनः १५८५ नियन्ता प्राजिता यन्ता सूतः क्षत्ता च सारथिः १५८६ सव्येष्ठदक्षिणस्थौ च संज्ञा रथकुटुम्बिनः १५८७ रथिनः स्यन्दनारोहा अश्वारोहास्तु सादिनः १५८८ भटा योधाश्च योद्धारः सेनारक्षास्तु सैनिकाः १५८९ सेनायां समवेता ये सैन्यास्ते सैनिकाश्च ते १५९० बलिनो ये सहस्रेण साहस्रास्ते सहस्रिणः १५९१ अपस्करः, इति २ रथावयवमात्रस्य॥-चक्रम , रथाङ्गम् , इति २ चक्रस्य॥-- नेमिः, प्रधिः, इति २ चक्रस्यान्तस्य ॥-पिण्डिका, नाभिः, इति २ चक्रमध्यस्य। अक्षस्याग्रे यत्कीलकमारोप्यते तत्र अणिरिति १ । स्त्री-पुंसयोः॥-रथगुप्तिः, वरूथः, इति २ वरूथस्य । ना पुमान् ॥-कूबरः, युगन्धरः, इति २ रथस्याश्वबन्धनकाष्ठस्य। रथाधःस्थं काष्टं अनुकर्षः १। युगायुगः प्रासङ्ग इति १। ना पुमान् । सर्वं हस्त्यश्वादिवाहनं यानादिशब्दवाच्यम् १ ॥-यानम् , युग्यम् , पत्रम , धोरणम् , इति ४ यत्परम्परावाहनं शिबिकादि तत् वैनीतकं स्यात् ॥-आधोरणाः, हस्तिपकाः, हस्त्यारोहा, निषादिनः, इति ४ हस्तिपकेषु ॥-नियन्ता, प्राजिता, यन्ता, सूतः, क्षत्ता, सारथिः, सव्येष्ठः, दक्षिणस्थः, इति ८ रथकुटुम्बिनः ॥-रथिनः, स्यन्दनारोहाः, इति २ रथानारुह्य युध्यताम् ॥-अश्वारोहाः, सादिनः, इति २ अश्ववाराणाम् ॥-भटः, योधः, योद्धा, इति ३ योद्धः ॥-सेनारक्षाः, सैनिकाः, इति २ सेनारक्षकाणाम् । ये सेनायां समवेतास्ते सैन्याः , सैनिकाः; इति २। ये सहस्रेण बलिनस्ते साहस्राः, सहनिणः, इति २॥-परिधिस्थः, परिचरः, इति २ दण्ड For Private and Personal Use Only
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy