________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमरकोषे
[९. क्षत्रिमवगः
कविका तु खलीनोऽस्त्री शर्फ क्लीबे खुरः पुमान् १५६६ पुच्छोऽस्त्री लूमलाङ्गले वालहस्तश्च वालधिः १५६७ त्रिषूपावृत्तलुठितौ परावृत्ते मुहुर्भुवि
१५६८ याने चक्रिणि युद्धार्थे शताङ्गः स्यन्दनो रथः १५६९ असौ पुष्यरथश्चक्रयानं न समराय यत्
१५७० कर्णीरथः प्रवहणं डयनं च समं त्रयम्
१५७१ क्लीबेऽनः शकटोऽस्त्री स्याद्गत्री कम्बलिवाह्यकम्। १५७२ शिबिका याप्ययानं स्याहोला प्रेक्षादिका स्त्रियाम् १५७३ उभौ तु द्वैपवैयाघौ द्वीपिचर्मावृते रथे । १५७४ पाण्डुकम्बलसंवीतः स्यन्दनः पाण्डुकम्बली १५७५ रथे काम्बलवास्त्राद्याः कम्बलादिभिरावृते १५७६ त्रिषु द्वैपादयो रथ्या रथकट्या रथव्रजे
१५७७ धूः स्त्री क्लीबे यानमुखं स्याद्रथाङ्गमपस्करः १५७८ नासिका प्रोथमिति १॥-कविका, खलीनः, इति २ लोहादिनिर्मितस्य अश्वमुखमध्ये निहितस्य ॥–शफम् , खुरः, इति २ खुरस्य ॥-पुच्छः, लूमम् , लालम् , इति ३ पुच्छस्य॥-वालहस्तः, वालधिः, इति२ केशसमूहयुक्तस्य पुच्छाग्रभागस्य ॥-उपावृत्तः, लुठितः, इति २ लठितस्याश्वस्य । युद्धमर्थः यस्य तस्मिन् चक्रयुक्ते याने शताङ्गः, स्यन्दनः, रथः, इति ३ । युच्चक्रयुतं इति समराय न भवति असौ पुष्यरथः स्यात् ॥-कीरथः, प्रवहणम् , डयनम् , इति ३ स्त्रीणां वाहनार्थकृतरथविशेषस्य॥-अनः, शकटः, इति २ शकटस्य। अनः सान्तं क्लीबे। शकटः पुं-नपुंसकयोः। कम्बलिभिर्वाह्यं यच्छकटं सा गन्त्री १॥ -शिबिका,याप्ययानम् , इति २ पुरुषवाह्यस्य यानस्य ॥-दोला, प्रेवा, इति २ दोलायाः। आदिशब्दाच्छयनखवावाह्यादि दोला । द्वीपी व्याघ्रस्तच्चर्मणा प्रावृते रथे द्वैपः, वैयाघ्रः इति २। पाण्डुकम्बलेन प्रावृतो रथः पाण्डकम्बलीति ११ कम्बलादिभिरावृते रथे काम्बलः, वास्त्रः, इति २ ॥-रथ्या, रथकट्या, इति २ रथसमूहे ॥-धूः, यानमुखम् , इति २ रथादेरग्रभागस्य ॥-रथाङ्गम् ,
For Private and Personal Use Only