________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पङ्क्तयः १५४१-१५६५ ] द्वितीयं काण्डम्
वीतं त्वसारं हस्त्यश्वं वारी तु गजबन्धनी घोटके वीतितुरगतुरंगाश्वतुरंगमाः वाजिवाहार्वगन्धर्वहय सैन्धवसप्तयः आजानेयाः कुलीनाः स्युर्विनीताः साधुवाहिनः वनायुजाः पारसीकाः काम्बोजा बाहिका हयाः ययुरश्वोऽश्वमेधीयो जवनस्तु जवाधिकः पृष्ठयः स्थौ सितः कर्को रथ्यो वोढा रथस्य यः बालः किशोरो वाम्यश्वा वडवा वाडवं गणे त्रिष्वाश्वीनं यदश्वेन दिनेनैकेन गम्यते कश्यं तु मध्यमश्वानां हेपा हेपा च निस्वनः निगालस्तु गलोदेशो वृन्दे त्वश्वीयमाश्ववत् आस्कन्दितं धौरितकं रेचितं वल्गितं लुतम् गतयोऽमूः पञ्च धारा घोणा तु प्रोथमस्त्रियाम्
१३५
For Private and Personal Use Only
१५५३
१५५४
१५५५
१५५६
१५५७
१५५८
१५५९
१५६०
१५६१
१५६२
१५६३
१५६४
१५६५
स्त्रियां तु कुथा । यत् असारं हस्त्यश्वं तद्वीतमुच्यते १ | गजबन्धनी गजालानभूः वारी इति १ गजबन्धनस्थानस्य ॥ - घोटकः, वीतिः, तुरगः, तुरगः, अश्वः, तुरंगमः, वाजी, वाहः, अर्वा, गन्धर्वः, हयः, सैन्धवः, सप्तिः, इति १३ घोटकस्य । ये कुलीना अश्वास्ते आजानेयाः । ये साधुवाहिनः ते विनीताः स्युः ॥ - वनायुजा, पारसीकाः, कम्बोजाः बाह्निकाः, इति ४ तत्तद्देशजाश्वानाम् । योऽश्वमेधीयोऽश्वः स ययुरिति । यो जवेनाधिकः स जवनः ॥ - पृष्ठ्यः, स्थारी, इति २ जलादिभार वाहिनोऽश्वस्य । सितोऽश्वः, कर्क इति १ । यो रथस्य वोढा स रथ्य इति १ । अस्य बालः किशोरः ॥ -वामी, अश्वा, वडवा, इति ३ अभ्वायाः । गणे वडवानां समूहे वाडवम् १ ॥ - अश्वेन एकेन दिनेन गम्यते यद्वर्त्म तदाश्वीनम् १ | त्रिषु । अश्वानां मध्यं कश्यम् स्यात् १ । अश्वस्य निस्वनः शब्दः हेषा, द्वेषा, इति २ । गलोद्देशः निगालः स्यात् १ । अश्वीयम्, आश्वम्, इति २ अश्वानां वृन्दे ॥ - आस्कन्दितम् धौरितकम्, रेचितम्, वल्गितम्, शम्, अमूः आस्कन्दिताद्याः, अश्वानां ५ गतयः, धाराख्याः ॥ अश्वस्य घोणा