________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३८
अमरकोषे
[ ९. क्षत्रियवर्गः परिधिस्थः परिचरः सेनानीर्वाहिनीपतिः १५९२ कञ्चको वारबाणोऽस्त्री यत्तु मध्ये सकञ्चकाः १५९३ बन्नन्ति तत्सारसनमधिकाङ्गोऽथ शीर्षकम् १५९४ शीर्षण्यं च शिरस्त्रेऽथ तनुत्रं वर्म दंशनम् १५९५ उरश्छदः कङ्कटको जगरः कवचोऽस्त्रियाम् १५९६ आमुक्तः प्रतिमुक्तश्च पिनद्धश्चापिनद्धवत् १५९७ संनद्धो वर्मितः सजो दंशितो व्यूढकङ्कटः १५९८ त्रिष्वामुक्तादयो वर्मभृतां कावचिकं गणे १५९९ पदातिपत्तिपदगपादातिकपदाजयः
१६०० पद्गश्च पदिकश्चाथ पादातं पत्तिसंहतिः
१६०१ शस्त्राजीवे काण्डपृष्ठायुधीयायुधिकाः समाः १६०२ कृतहस्तः सुप्रयोगविशिखः कृतपुङ्खवत्
१६०३ अपराद्धपृषत्कोऽसौ लक्ष्याद्यश्चयुतसायकः १६०४ धन्वी धनुष्मान् धानुष्को निषङ्गयस्त्री धनुर्धरः १६०५ नायकस्य ॥–सेनानीः, वाहिनीपतिः, इति २ सेनापतेः॥-कञ्चकः, वारवाणः, इति २ सन्नाहस्य चोलकादेः । सकच्चु काः पुरुषामध्ये यश्नन्ति तत्सारसनम्, अधिकाङ्गः, इति २ ॥ शीर्षकम् , शीर्षण्यम् , शिरस्त्रम् , इति ३ शिरस्त्रस्य ॥तनुत्रम् , वर्म, दंशनम् , उरश्छदः,कङ्कटकः,जगरः, कवचः, इति ७ कवचस्याआमुक्तः, प्रतिमुक्तः, पिनद्धः, अपिनद्धः, इति ४ परिहितकञ्चकादेः ।संनद्धः, वर्मितः, सजः, दंशितः, व्यूढ कङ्कटः, इति ५ कवचभृतः । आमु. क्तादयस्त्रिषु। वर्मभृतां कवचिनां गणे कावचिकमिति १ । पदातिः, पत्तिः, पदगः, पादातिकः, पदाजिः, पदः पदिकः, इति ७ पदातेः । पत्तिसंहतिः पादातमिति १ ॥- शस्त्राजी :, काण्डपृष्ठः, आयुधीयः, आयुधिकः, इति ४ आयुधजीविनः ॥-कृतहस्तः, सुप्रयोगविशिखः, कृतपुतः, इति ३ शरनिक्षेपनिष्णातस्य। लक्ष्याद्वेध्यात् च्युतः सायको यस्य सोऽपराद्धपृषत्कः स्यात् १॥धन्वी, धनुष्मान् , धानुष्कः, निषङ्गी, अस्त्री, धनुर्धरः, इति ६ धनुर्धरस्य ॥
For Private and Personal Use Only