________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२२
अमरकोषे
[८. ब्रह्मवर्गः
अध्वर्युगातृहोतारो यजुः सामग्विदः क्रमात् १३८६ आग्नीध्राद्या धनैर्वार्या ऋत्विजो याजकाश्च ते १३८७ वेदिः परिष्कृता भूमिः समे स्थण्डिलचत्वरे १३८८ चषालो यूपकटकः कुम्बा सुगहना वृतिः १३८९ यूपाग्रं तर्म निर्मन्थ्यदारुणि त्वरणियोः १३९० दक्षिणाग्निर्हपत्याहवनीयौ त्रयोऽग्नयः १३९१ अग्नित्रयमिदं त्रेता प्रणीतः संस्कृतोऽनलः १३९२ समूह्यः परिचाय्योपचाय्यावग्नौ प्रयोगिणः १३९३ यो गार्हपत्यादानीय दक्षिणाग्निः प्रणीयते १३९४ तस्मिन्नानाय्योऽथानायी स्वाहा च हुतभुप्रिया १३९५ ऋक् सामिधेनी धाय्या च या स्यादग्निसमिन्धने १३९६ गायत्रीप्रमुखं छन्दो हव्यपाके चरुः पुमान् १३९७ आमिक्षा सा शुतोष्णे या क्षीरे स्याद्दधियोगतः १३९८ यजुर्विदृत्विक अध्वर्युः, इति १ । सामविदुद्गाता इति १ । ऋग्वेदवित् होता इति १ । धनैर्वायाः ये आग्नीध्राद्यास्ते ऋत्विजः, याजकाः, इति २ । परिकृता भूमिर्वेदिरित्युच्यते 10- स्थाण्डलम् , चत्वरम् , इति २ यशार्थ संस्कृतस्य भूभागस्य। यूपकटकः काष्ठविकारश्वषाल: स्यात्, इति १। सुगहना वृतिर्वेष्टनं कुम्बा स्यात् , इति १ स्त्रियाम् ॥—यूपाग्रम् , तर्म, इति २ यूपाने । निमन्थ्यदारुणि अरणिरिति १ । स्त्रीपुंसयोः ॥-दक्षिणामिः, गार्हपत्यः, आहवनीयः, इति ३ अग्निविशेषाः । इदमग्नित्रयं त्रेता स्यात् ,इति ११ मन्त्रादिना संस्कृतोऽग्निः प्रणीत इति १ ॥-समूह्यः, परिचाय्यः, उपचाय्यः, इति ३ अग्नौ प्रयोगिणः। गार्हपत्यादानीय यो दक्षिणामिः प्रणीयते प्रवेश्यते तत्र आनाय्य इति १॥अमायी, खाहा, हुतभुक्प्रिया इति ३ अग्निप्रियायाम् । अग्निसमिन्धने वाह्नज्वलने या ऋक् प्रयुज्यते, सा सामिधेनी, धाय्या, इति २ । गायत्र्युष्णिगित्यादि छन्दः स्यादिति १ । हव्यपाकेऽमिमुखे हूयमानेऽन्ने चरुरिति १ । क्षीरे दधियोगतो या विकृतिः सा आमिक्षा स्यात् १। मृगचर्मणा रचितं यद्यजनं तत् धुवित्रमिति १।
For Private and Personal Use Only