________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पङ्क्तयः १३८६ - १४१२] द्वितीयं काण्डम्
धुवित्रं व्यजनं तद्यद्रचितं मृगचर्मणा पृषदाज्यं सदध्याज्ये परमान्नं तु पायसम् हव्यकव्ये दैवपित्र्ये अन्ने पात्रं स्रुवादिकम् ध्रुवोपभृज्जुहूर्ना तु स्रुवो भेदाः स्रुचः स्त्रियः उपाकृतः पशुरसौ योऽभिमन्त्र्य ऋतौ हतः परम्पराकं शमनं प्रोक्षणं च वधार्थकम् वाच्यलिङ्गाः प्रमीतोपसंपन्नप्रोक्षिता हते सांनाय्यं हविरग्नौ तु हृतं त्रिषु वषट्कृतम् दीक्षान्तोऽवभृथो यज्ञे तत्कर्मार्ह तु यज्ञियम्
त्रिष्वथ क्रतुकर्मेष्टं पूर्त खातादि कर्म यत् अमृतं विघसो यज्ञशेषभोजनशेषयोः त्यागो विहापितं दानमुत्सर्जनविसर्जने विश्राणनं वितरणं स्पर्शनं प्रतिपादनम् प्रादेशनं निर्वपणमपवर्जनमंहतिः
१२३
For Private and Personal Use Only
१३९९
१४००
१४०१
१४०२
१४०३
१४०४
१४०५
१४०६
१४०७
१४०८
१४०९
१४१०
१४११
१४१२
,
दधियुक्त घृते पृषदाज्य मिति १ ॥ - परमान्नम्, पायसम् इति २ क्षीरान्नस्य । दैवपित्र्येऽन्ने क्रमेण हव्यकव्ये स्याताम् २ | स्रुवचमसादिकं पात्रं स्यात् १॥— ध्रुवा, उपभृत्, जुहूः, इति ३ स्रुवो भेदाः । स्त्रियाम् । स्रुव इत्येकं पुंसि । ऋतौ यः पशुरभिमन्त्रय हतः स उपाकृतः स्यात् १ ॥ - परम्पराकम्, शमनम्, प्रोक्षणम् इति ३ वधार्थकम् ॥ - प्रमीतः, उपसंपन्नः, प्रोक्षितः, इति ३ यागार्थ हते पशुमात्रे । हविर्विशेषः सान्नाय्यं स्यात् १ | अन्नौ हुतं याज्यादि वषट्कृतं स्यात् १ । तन्त्रिषु । यज्ञे दीक्षान्तः अवभृथः । तत्कर्मार्ह वस्तु यशियम् १ | त्रिषु । यत्क्रतुकर्म तदिष्टं स्यात् १ । खातादि यत्कर्म तव पूर्त स्यात् १ | यज्ञशेषे पुरोडाशादौ अमृतमिति १ । भोजनशेषे विघस इति १ ॥ - त्यागः, विज्ञापितम्, दानम्, उत्सर्जनम्, विसर्जनम् विश्राणनम्, वितरणम्, स्पर्शनम्, प्रतिपादनम्, प्रादेशनम्, निर्वपणम्, अपवर्जनम्, अंहतिः, इति १३ दानस्य ।