________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पङ्क्यः १३६३ - १३८५ ]
द्वितीयं काण्डम्
लब्धानुज्ञः समावृत्तः सुत्वा त्वभिषवे कृते छात्रान्तेवासिनी शिष्ये शैक्षाः प्राथमकल्पिकाः एकब्रह्मव्रताचारा मिथः सब्रह्मचारिणः सतीर्थ्यास्त्वेकगुरवश्चितवानग्निमग्निचित् पारम्पर्योपदेशे स्यादैतिह्यमितिहाव्ययम् उपज्ञा ज्ञानमाद्यं स्याज्ज्ञात्वारम्भ उपक्रमः यज्ञः सवोऽध्वरो यागः सप्ततन्तुर्मखः क्रतुः पाठो होमश्वातिथीनां सपर्या तर्पणं बलिः एते पञ्चमहायज्ञा ब्रह्मयज्ञादिनामकाः समज्या परिषद्गोष्ठी सभासमिति संसद: आस्थानी क्लीबमास्थानं स्त्रीनपुंसकयोः सदः प्राग्वंशः प्राग्घविर्गेहात् सदस्या विधिदर्शिनः सभासदः सभास्ताराः सभ्याः सामाजिकाश्च ते
१२१
For Private and Personal Use Only
१३७३
१३७४
१३७५
१३७६
१३७७
१३७८
१३७९
१३८०
१३८१
१३८२
१३८३
१३८४
१३८५
स्यात्, इति १ । अभिषवे स्नाने कृते सति सुत्वा स्यात् १॥ - छात्रः, अन्तेवासी, शिष्यः, इति ३ शिष्यस्य ॥ - शैक्षाः, प्राथमकल्पिकाः, इति २ आरब्धाध्ययनानां बहूनाम् । एकशाखाखाध्यायिनो ब्रह्मचारिणस्ते मिथः परस्परं सब्रह्मचारिण इत्युच्यन्ते १ । एकः समानो गुरुर्येषां ते परस्परं सतीर्थ्याः स्युः १ । योऽग्निं चितवान् सोऽभिचित इति १ कृताग्निचयनस्य ॥ ऐतिह्यं, इतिह, इति २ पारम्पर्येण य उपदेशस्तस्मिन् । यत्प्रथमं ज्ञानं सा उपज्ञा स्यात् । ज्ञात्वा य आरम्भः स उपक्रमः ॥ यज्ञः, सवः, अध्वरः, यागः, सप्ततन्तुः, मखः, ऋतुः, इति ७ यज्ञस्य ॥ पाठादयः पञ्च ब्रह्मयज्ञादिनामका महायशाः स्युः, १ ॥ - पाठः, होमः, अतिथीनां सपर्या, तर्पणम्, बलिः, इति ५ पञ्चमहायज्ञानाम् ॥ - समज्या, परिषत्, गोष्टी, सभा, समितिः, संसत, आस्थानी, आस्थानम्, सदः, इति ९ सभायाः । सदः सान्तं क्लोबे, स्त्रीत्वे सदाः । आस्थानी क्लीबेऽपि ॥ हविर्गेहात्प्राक्रू सदस्यादीनां यद्गृहं स प्राग्वंशः इति १ । यज्ञकर्मणि विधिं वेदोक्तक्रियाकलापं ये पश्यन्ति ते सदस्याः इति १ ॥ सभासदः, सभास्ताराः, सभ्याः, सामाजिकाः, इति ४ सभ्येषु ।