________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२०
अमरकोषे
[ ८. ब्रह्मवर्गः
१३६४
१३६५
धीरो मनीषी ज्ञः प्राज्ञः संख्यावान् पण्डितः कविः १३६३ धीमान् सूरिः कृती कृष्टिर्लब्धवर्णो विचक्षणः दूरदर्शी दीर्घदर्शी श्रोत्रियच्छान्दसौ समौ 'मीमांसको जैमिनीये वेदान्ती ब्रह्मवादिनि वैशेषिके स्यादौलूक्यः सौगतः शून्यवादिनि नैयायिकस्त्वक्षपादः स्यात् स्याद्वादिक आर्हकः चार्वाकलोकायतिको सत्कार्ये साङ्ख्यकापिली' उपाध्यायोऽध्यापकोऽथ स्यान्निषेकादिकृद्गुरुः मन्त्रव्याख्याकृदाचार्य आदेष्टा त्वध्वरे व्रती यष्टा च यजमानश्च स सोमवति दीक्षितः इज्याशी यायजूको यज्वा तु विधिनेष्टवान् स गीष्पतीष्ट्या स्थपतिः सोमपीथी त सोमपाः तु सर्ववेदाः स येनेष्टो यागः सर्वस्वदक्षिणः अनूचानः प्रवचने साङ्गेऽधीती गुरोस्तु यः
**
***
**
***
१३६६
१३६७
१३६८
१३६९
१३७०
१३७१
१३७२
सन्, सुधीः, कोविदः, बुधः, धीरः, मनीषी, ज्ञः, प्राज्ञः, संख्यावान्, पण्डितः, कविः, धीमान्, सूरिः, कृती, कृष्टिः, लब्धवर्णः, विचक्षणः, दूरदर्शी, दीर्घदर्शी, इति २२ पण्डितस्य ॥ - श्रोत्रियः, छान्दसः, इति २ वेदाध्यायिनः ॥ - उपाध्यायः, अध्यापकः, इति २ उपाध्यायस्य ॥ - निषेककर्ता पित्रादिर्गुरुः स्यात् १ । मन्त्रो वेदस्तस्य व्याख्याकृत् आचार्यः स्यात् १ । अध्वरे यागविषये य ऋत्विजामादेष्टा स व्रती, यष्टा, यजमानः, इति ३ । स यजमानः सोमवति यागे आदेष्टा दीक्षित इत्युच्यते इति १ ॥ - इज्याशीलः, यायजूकः, इति २ यजनशीलस्य । विधिना यागं कृतवान् स यज्वा स्यात् १ | यः गीष्पतीष्ट्या बृहस्पतिसव विधिना इष्टवान् स स्थपतिरित्युच्यते १ ॥ - सोमपीथी, सोमपाः, इति २ सोमयाजिनः ॥ येन सर्वस्वदक्षिणो विश्वजिन्नामा याग इष्टः जः सर्ववेदाः स्यात् १ | साङ्गे प्रवचने वेदे अधीती कृताध्ययनोऽनूचान इति १ । योऽनूचानो गुरोर्लब्धानुशः स समावृतः
For Private and Personal Use Only