________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ममरकोपे
[७. मनुष्यवर्गः अस्त्री वितानमुल्लोचो दृष्याचं वस्त्रवेश्मनि १३१३ प्रतिसीरा जवनिका स्यात्तिरस्करिणी च सा १३१४ परिकर्माङ्गसंस्कारः स्यान्मार्टिार्जना मृजा १३१५ उद्वर्तनोत्सादने द्वे समे आप्लाव आप्लवः स्नानं चर्चा तु चार्चिक्यं स्थासकोऽथ प्रबोधनम् १३१७ अनुबोधः पत्रलेखा पत्राङ्गलिरिमे समे
१३१८ तमालपत्रतिलकचित्रकाणि विशेषकम्
१३१९ द्वितीयं च तुरीयं च न स्त्रियामथ कुङ्कमम् १३२० काश्मीरजन्माग्निशिखं वरं बाह्रीकपीतने १३२१ रक्तसंकोचपिशुनं धीरं लोहितचन्दनम् १३२२ लाक्षा राक्षा जतु क्लीवे यावोऽलक्तो द्रुमामयः १३२३ लवङ्गं देवकुसुमं श्रीसंज्ञमथ जायकम्
१३२४ वस्रादि तत् आप्रपदीनम् । त्रिषु एकम् ॥--वितानम् , उल्लोचः, इति २ आतपाद्यपनयार्थमुपरिबद्धस्य वाससः । पुंसि वितानः । दष्यमित्यादिक वस्त्रवेश्मनि वस्त्ररचितगृहे इति १ । प्रतिसीरा, जवनिका, तिरस्करिणी, इति ३ जवनिकायाः ॥-परिकर्म, अङ्गसंस्कारः, इति २ कुकमादिना शरीरे संस्कारमात्रस्य ॥-उद्वर्तनम् , उत्सादनम् , इति २ पिष्टादिना शरीरमलापाकरणस्य ।-आलावः, आप्लवः, स्नानम् , इति ३ स्नानस्य ॥-चर्चा, चार्चिक्यम , स्थासकः, इति ३ चन्दनादिना देहविलेपनस्य ॥-प्रबोधनम् , अनुबोधः, इति २ गतगन्धस्य पुनर्गन्धव्यक्तीकरणे ॥-पत्रलेखा, पत्राझुलिः, इति २ कस्तूरिकाकेशरादिना कपोलादौ रचितपत्रावल्याः।--- तमालपत्रम् , तिलकम् , चित्रकम् , विशेषकम् , इति ४ ललाटे कस्तूर्यादिना कृततिलकस्य । अत्र तिलकम् , विशेषकम् , इति द्वौ पुं-नपुंसकयोः । कुखमम् , काश्मीरजन्म, अग्निशिखम् , वरम , बाहीकम् , पीतनम , रक्तम् , संकोचम् , पिशुनम् , धीरम् , लोहितचन्दनम् , इति ११ कुकुमस्य । लाक्षा, राक्षा, जतु, यावः, अलक्तः, द्रमामयः, इति ६ लाक्षायाः॥-लवङ्गम् , देवकुसुमम् , श्रीसंज्ञम् , इति ३
For Private and Personal Use Only