________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११५
पतयः १२८८-१३१२] द्वितीयं काणम् स्त्रियां बहुत्वे वस्त्रस्य दशाः स्युर्वस्तयोद्धयोः दैर्घ्यमायाम आरोहः परिणाहो विशालता पटच्चरं जीर्णवस्त्रं समौ नक्तककर्पटौ वस्त्रमाच्छादनं वासश्चैलं वसनमंशुकम् सुचेलकः पटोऽस्त्री स्याद्वराशिः स्थूलशाटकः निचोलः प्रच्छदपटः समौ रल्लककम्बलौ अन्तरीयोपसंव्यानपरिधानान्यधोंशुके द्वौ प्रावारोत्तरासङ्गौ समौ बृहतिका तथा संव्यानमुत्तरीयं च चोलः कूसकोऽस्त्रियाम् नीशारः स्यात्प्रावरणे हिमानिलनिवारणे अर्घोरुकं वरस्त्रीणां स्याञ्चण्डातकमस्त्रियाम् स्यात्रिष्वाप्रपदीनं तत्प्रामोत्याप्रपदं हि यत्
१३०१ १३०२ १३०३ १३०४ १३०५ १३०६ १३०७ १३०८ १३०९ १३१०
१३१२
पट्टवस्त्रस्य॥-निवीतम् , प्रावृतम् , इति २ प्रावृतवस्त्रस्य । वस्त्रस्य द्वयोवस्तयोः प्रान्तयोः दशाः स्युः १ । एकं स्त्रीलिङ्गं बहुवचनान्तं च नित्यम् ॥दैर्घ्यम् , आयामः, आरोहः, इति ३ वस्त्रादेर्दैर्घ्यस्य ॥ परिणाहः, विशालता, इति २ विस्तारस्य ॥-पटचरम् , जीर्णवस्त्रम् , इति २ जीर्णवस्त्रस्य ॥नक्तकः, कर्पटः, इति २ जीर्णवस्त्रखण्डस्य ॥-वनम् , आच्छादनम्, वासः, चेलम् , वसनम् , अंशुकम्, इति ६ वस्त्रस्य ॥-सुचेलकः, पटः, इति २ शोभनवस्त्रस्य। तत्र पटोऽस्त्री ॥–वराशिः, स्थूलशाटकः, इति २ स्थूलवाससः॥-निचोलः, प्रच्छदपटः,इति २ वीणाडोलिकादिपिधानस्य ।।रलका, कम्बलः, इति २ कम्बलस्य-अन्तरीयम् , उपसंव्यानम् , परिधानम् , अधोंशुकम् , इति ४ परिहिते वाससि ॥-प्रावारः, उत्तरासाः, बृहतिका, संव्यानम् , उत्तरीयम्, इति ५ वामस्कन्धे धृतोत्तरीयस्य ॥-चोलः, कूपोसकः, इति २ स्त्रीणां स्तनादिपिघायकस्य । पुंसि, क्लीवेच। हिमानिलयोनिवारणं यस्मात्ताह प्रावरणे नीशार इति १ । यद्वरत्रीणां अर्धारुक अोरुपिधायकं बलं तत् खण्डातकं स्यात् १। यत् भाप्रपदं पादाप्रपर्यन्तं प्रामोति
For Private and Personal Use Only