________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमरकोषे
[७. मनुष्यवर्गः गर्भाशयो जरायुः स्यादुल्वं च कललोऽस्त्रियाम् ११५० सूतिमासो वैजननो गर्भो भ्रूण इमौ समौ ११५१ तृतीयाप्रकृतिः षण्ढः क्लीवः पण्डो नपुंसके ११५२ शिशुत्वं शैशवं बाल्यं तारुण्यं यौवनं समे ११५३ स्यात्स्थाविरं तु वृद्धत्वं वृद्धसंघेऽपि वार्धकम् ११५४ पलितं जरसा शौक्ल्यं केशादौ विनसा जरा ११५५ स्यादुत्तानशया डिम्भा स्तनपा च स्तनंधयी
११५६ बालस्तु स्यान्माणवको वयस्यस्तरुणो युवा ११५७ प्रवयाः स्थविरो वृद्धो जीनो जीर्णो जरन्नपि ११५८ वर्षीयान्दशमी ज्यायान् पूर्वजस्त्वग्रियोऽग्रजः ११५९ जघन्यजे स्युः कनिष्ठयवीयोऽवरजानुजाः ११६० अमांसो दुर्बलश्छातो बलवान्मांसलोंऽसलः गर्भाशयः, जरायुः, उल्बम् . इति ३ गर्भवेष्टितचर्मणः ॥-कललः, इति १ शुक्रशोणितसन्निपातस्य । पुंनपुंसकयोः । उल्बपर्यायः कलल इति ।सूतिमासः, वैजननः, इति २ प्रसवमासस्य ॥-गर्भः, भ्रूणः, इति २ कुक्षिस्थस्य प्राणिनः ॥ तृतीयाप्रकृतिः, षण्डः, क्लीबः, पण्डः, नपुंसकः, इति ५ नपुंसकस्य ॥-शिशुत्वम् , शैशवम् , बाल्यम् , इति ३ वालत्वे ॥तारुण्यम् , यौवनम्, इति २ तारुण्यस्य ।।-स्थाविरम् , वृद्धत्वम् , वाधकम् , इति ३ वृद्धत्वे ॥- केशादी जरसा यत् शोकल्यं धवलिमा तत् पलितमुच्यते इति १॥-विस्रसा, जरा, इति २ जरायाः॥-उत्तान शया, डिम्भा, स्तनपा, स्तनंधयी, इति ४ स्तनंधयस्य -बालः, माणवकः, इति २ बालस्य ॥-वयस्यः, तरुणः, युवा, इति ३ यूनः ॥ प्रवयाः, स्थविरः, वृद्धः, जीनः, जीर्णः, जरन् , इति ६ वृद्धस्य ॥--वर्षीयान् , दशमी, ज्यायान् , इति ३ अतिवृद्धस्य ॥-पूर्वजः, अग्रियः अग्रजः, इति ३ ज्येष्ठभ्रातुः ॥-जघन्यजः, कनिष्टः, यवीयान् , अवरजः, अनुजः, इति ५ कनिष्टभ्रातुः ॥-अमांसः, दुबेलः, छातः, इति ३ अबलस्य ।।-बलवान्, मांसलः, अंसलः, इति ३
For Private and Personal Use Only