________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पङ्क्यः ११२६-११४९ ]
द्वितीयं काण्डम्
स्वस्रीय भागिनेयः स्याज्जामाता दुहितुः पतिः पितामहः पितृपिता तत्पिता प्रपितामहः मातुर्मातामहाद्येवं सपिण्डास्तु सनाभयः समानोदर्य सोदर्यसग सहजाः समाः सगोत्रवान्धव ज्ञातिबन्धुस्वस्वजनाः समाः ज्ञातेयं बन्धुता तेषां क्रमाद्भावसमूहयोः थवः प्रियः पतिर्भर्ता जारस्तूपपतिः समौ अमृते जारजः कुण्डो मृते भर्तरि गोलकः भ्रात्रीयो भ्रातृजो भ्रातृभगिन्यौ भ्रातरावुभौ मातापितरौ पितरौ मातरपितरौ प्रसूजनयितारौ श्वश्रूश्वशुरौ श्वशुरौ पुत्रौ पुत्रश्च दुहिता च दंपती जंपती जायापती भार्यापती च तौ
१०१
For Private and Personal Use Only
११३८
११३९
११४०
११४१
११४२
११४३
११४४
११४५
११४६
११४७
११४८
११४९
कनिष्ठे देवा, देवरः, इति २ ॥ - स्वस्रीयः, भागिनेयः, इति २ भगिन्याः पुत्रे ॥ दुहितुः पतिः जामाता स्यात् १ ॥ पितामहः, पितृपिता, इति २ पितुः पितरि । तस्य पितामहस्य पिता प्रपितामहः इति १ । एवं मातुः पित्रादौ मातामहादिः, यथा - मातुः पिता मातामहः १ । सपिण्डाः, सनाभयः, इति २ सप्तपुरुषावधिज्ञातिषु ॥ - समानोदर्यः, सोदर्यः, सगर्भ्यः, सहजः, इति ४ एकोदरस्य भ्रातुः ॥ सगोत्रः, बान्धवः ज्ञातिः, बन्धुः खः, खजनः, इति ६ सगोत्रस्य ॥ - तेषां भावसमूहयोः क्रमात् ज्ञातेयम्, बन्धुता, स्यात् ॥ धवः, प्रियः, पतिः, भर्ता, इति ४ पत्युः ॥ —जार:, उपपतिः इति २ मुख्यादन्यस्य भर्तुः ॥ अमृते भर्तरि जाराज्जातः कुण्ड इत्युच्यते ॥ - मृते भर्तरि जाराज्जातो गोलक इति १ ॥ - श्रात्रीयः, भातृजः, इति २ भ्रातृपुत्रस्य ॥ - भातृभगिन्या भ्रातराविति स्याताम् ॥ मातापितरौ, पितरौ, मातरपितरी, प्रसूजनयितारी, इति ४ मातापित्रोः ॥ श्वश्रूश्वशुरी, श्वरी, इति २ सहोकयोः श्वश्रूश्वशुरयोः ॥ - पुत्रश्च दुहिता च एकशेषे पुत्रौ स्याताम् ॥ दंपती, जंपती, जायापती, भार्यापती, इति ४ दम्पत्योः ॥ -
---