________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
९६
Acharya Shri Kailassagarsuri Gyanmandir
अमरकोषे
विशेषास्त्वङ्गना भीरुः कामिनी वामलोचना प्रमदा मानिनी कान्ता ललना च नितम्बिनी सुन्दरी रमणी रामा कोपना सैव भामिनी वरारोहा मत्तकाशिन्युत्तमा वरवर्णिनी कृताभिषेका महिषी भोगिन्योऽन्या नृपस्त्रियः पत्नी पाणिगृहीती च द्वितीया सहधर्मिणी भार्या जायाऽथ पुंभूनि दाराः स्यात्तु कुटुम्बिनी पुरंध्री सुचरित्रा तु सती साध्वी पतिव्रता कृतसापलिकाऽध्यूढाऽधिविन्नाथ स्वयंवरा पतिंवरा च वर्याथ कुलस्त्री कुलपालिका कन्या कुमारी गौरी तु नग्निकाऽनागतार्तवा स्यान्मध्यमा दृष्टरजास्तरुणी युवतिः समे
[ ५. सिंहादिवर्ग:
१०७९
१०८०
१०८१
१०८२
१०८३
१०८४
१०८५
१०८६
१०८७
१०८८
१०८९
१०९०
,
इति ११ स्त्रियाः ॥ - विशेषाः स्त्रीगां भेदाः । अङ्गना, भीरुः, कामिनी, वामलोचना, प्रमदा, मानिनी, कान्ता, ललना, नितम्बिनी, सुन्दरी, रमणी, रामा, इति १२॥कोपना, भामिनी, इति २ कोपशीलायाः ॥ - वरारोहा, मत्तकाशिनी, उत्तमा, वरवर्णिनी, इति ४ गुणैरुत्कृष्टायाः स्त्रियाः । या कृताभिषेका नृपस्त्री सा महिषी इति १ ॥ - अन्या अकृताभिषेका नृपस्त्रियो भोगिन्य इत्युच्यन्ते इति १ ॥-पत्नी, पाणिगृहीती, द्वितीया, सहधर्मिणी, भार्या, जाया, दाराः, इति ७ परिणीतायाः स्त्रियाः । तत्र 'दारा' शब्दो नित्यं पुंसि बहुवचनान्तश्च ॥ कुटुम्बिनी, पुरंध्री, इति २ पतिपुत्रादिमत्याः ॥ - सुचरित्रा, सती, साध्वी, पतिव्रता, इति ४ पतिसेवातत्परायाः ॥ कृतसापत्त्रिका, अध्यूढा, अधिविन्ना, इति ३ कृतानेकविवाहस्य पुंसो या प्रथमोढा स्त्री तस्याः ॥ — स्वयंवरा, पतिंवरा, वर्षा इति ३ स्वेच्छया पतिवरणोद्युक्तायाः ॥ — कुलस्त्री, कुलपालिका, इति २ कुलवत्याः ॥ - कन्या कुमारी, इति २ प्रथमवयसि वर्तमानायाः ॥ गौरी, नशिका, अनागतार्तवा, इति ३ अदृष्टरजस्कायाः ॥– मध्यमा, दृष्टरजाः, इति २ प्रथमप्राप्तरजोयोगायाः ॥
For Private and Personal Use Only