________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पक्लयः १०७९-११०१] द्वितीयं काण्डम् समाः स्नुषाजनीवध्वश्चिरिण्टी तु सुवासिनी इच्छावती कामुका स्याद्वषस्यन्ती तु कामुकी कान्तार्थिनी तु या याति संकेतं साऽभिसारिका पुंश्चली धर्षिणी बन्धक्यसती कुलटेत्वरी स्वैरिणी पांसुला च स्यादशिश्वी शिशुना विना अवीरा निष्पतिसुता विश्वस्ताविधवे समे आलिः सखी वयस्याऽथ पतिवत्नी सभर्तृका वृद्धा पलिक्की प्राज्ञी तु प्रज्ञा प्राज्ञा तु धीमती शूद्री शूद्रस्य भायों स्याच्छूद्रा तजातिरेव च आभीरी तु महाशूद्री जातिपुंयोगयोः समा अर्याणी स्वयमर्या स्यात् क्षत्रिया क्षत्रियाण्यपि
१०९१ १०९२ १०९३ १०९४ १०९५ १०९६ १०९७ १०९८ १०९९ ११०० ११०१
तरुणी, युवतिः, इति २ मध्यमवयसि वर्तमानायाः ॥-नुषा, जनी, वधूः, इति ३ पुत्रादिभार्यायाः ॥-चिरिण्टी, सुवासिनी, इति २ किंचिल्लब्धयोवनायां परिणीतायाम् ।।--इच्छावती, कामुका, इति २ यभनादीच्छावस्याः ॥-वृषस्यन्ती, कामुकी, इति २ मैथुनेच्छावत्याम् ॥ या कान्तार्थिनी भर्तुः संकेतस्थानं गच्छति साऽभिसारिका॥-पुंश्चली, धर्षिणी, बन्धकी, असती, कुलटा, इत्वरी, खरिणी, पांसुला, इति ८ स्वैरिण्याः । या शिशुना रहिता सा अशिश्वी इति १ । निष्पतिसुता पतिपुत्ररहिता अवीरा इति १ ॥विश्वस्ता, विधवा, इति २ रण्डायाः ॥-आलिः, सखी, वयस्या, इति ३ सख्याः ॥-पतिवनी, सभर्तृका, इति २ जीवद्भर्तृकायाः ॥-वृद्धा, पलिनी, इति २ पक्ककेश्याः ॥-प्राज्ञी, प्रज्ञा, इति २ या यत्किमपि स्वयं प्रकपेण जानाति तस्याः ॥-प्राज्ञा, धीमती, इति २ बुद्धिमत्याः । या शूद्रस्य भार्या सा विजातीयाऽपि शूद्रीत्युच्यते इति १। तजातिः शूद्रजातिः शूद्रेत्युच्यते ॥-श्रामीरी, महाशूद्री, इति २ गोपालिकायाः । जातिपुंयोगयोः महाशूद्रस्य जाती महाशूद्रस्य स्त्रीत्येवंरूपं, पुंयोगे च समा॥-अर्याणी, अर्या इति २ वैश्यजात्युत्पत्रायाः स्रियाः ॥-क्षत्रिया, क्षत्रियाणी, इति २ क्षत्रिय
ब. को. स. ७
For Private and Personal Use Only