________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९५
पतयः १०५४-१०७८] द्वितीयं काण्डम् स्त्रियां तु संहतिवृन्दं निकुरम्बं कदम्बकम् वृन्दभेदाः समैर्वर्गः संघसार्थों तु जन्तुभिः सजातीयैः कुलं यूथं तिरश्चां पुनपुंसकम् पशूनां समजोऽन्येषां समाजोऽथ सधर्मिणाम् स्यान्निकायः पुञ्जराशी तूत्करः कूटमस्त्रियाम् कापोतशोकमायूरतैत्तिरादीनि तद्गणे गृहासक्ताः पक्षिमृगाश्छेकास्ते गृह्यकाश्च ते
७. मनुष्यवर्गः मनुष्या मानुषा मां मनुजा मानवा नराः स्युः पुमांसः पञ्चजनाः पुरुषाः पूरुषा नरः स्त्री योषिदवला योषा नारी सीमन्तिनी वधूः। प्रतीपदर्शिनी वामा वनिता महिला तथा
१०६८ १०६९ १०७० १०७१ १०७२ १०७३ १०७४
१०७५ १०७६ १०७७ १०७८
चयः, गणः, संहतिः, वृन्दम् , निकुरम्बकम् , कदम्बकम् , इति २२ समूहस्य। संहतिः स्त्रियाम् ॥-तत्र वृन्दभेदाः । समैः सजातीयैः प्राणिभिरपाणिभिर्वा समूहो वर्ग इत्युच्यते इति १। सजातीयर्विजातीयैरपि जन्तुभिः प्राणिभिरेव समूहःसंघः, सार्थः, इति २ । सजातीयैर्जन्तुभिरेव कुलम् १ । तिरश्चामेव सजातीयानां समूहे यूथम् १। पशूनामेव वृन्दं समज इत्युच्यते इति १। अन्येषां पश्वतिरिक्तानां वृन्दं समाजः । सधर्मिणां एकधर्मवतां समूहो निकायः १॥-पुञ्जः, राशिः, उत्करः, कूटम् , इति ४ धान्यादिराशेः॥--तद्गणे तेषां कपोतादीनां समूहे कापोतादीनि स्युः । यथा कपोतानां समूहः कापोतम् १ । शुकानां समूहः शोकम् १। एवं मयूराणां समूहः मायूरम् १ । तित्तिराणां समूहस्तैत्तिरम् १ । 'आदि'शब्दात् काकमित्यादि॥ये गृहासक्ताः पक्षिमृगास्ते छेकाः, गृह्यकाः, इति २ ॥
१०७५-१३५३ मनुष्याः,मानुषाः, माः, मनुजाः, मानवाः, नराः, पुमांसः, पञ्चजनाः, पुरुषाः, पूरुषाः, नरः, इति ११ मनुष्याणाम् ॥–श्री, योषित, भवला, योषा, नारी, सीमन्तिनी, वधूः, प्रतीपदर्शिनी, वामा, वनिता, महिला,
For Private and Personal Use Only