________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमरकोपे [५. वनौषधिवर्गः पल्लवोऽस्त्री किसलयं विस्तारो विटपोऽस्त्रियाम् ६७७ वृक्षादीनां फलं सस्यं वृन्तं प्रसवबन्धनम् ६७८ आमे फले शलाटुः स्याच्छुष्के वानमुभे त्रिषु ६७९ क्षारको जालकं क्लीवे कलिका कोरकः पुमान् ६८० स्याद्गुच्छकस्तु स्तबकः कुमलो मुकुलोऽस्त्रियाम् ६८१ स्त्रियः सुमनसः पुष्पं प्रसूनं कुसुमं सुमम् मकरन्दः पुष्परसः परागः सुमनोरजः द्विहीनं प्रसवे सर्व हरीतक्यादयः स्त्रियाम् ६८४ आश्वत्थवैणवप्लाक्षनैयग्रोधैङ्गदं फले बाहेतं च फले जम्ब्वा जम्बूः स्त्री जम्बु जाम्बवम् ६८६
६८३
तत्र छदोऽदन्तः पुंसि ॥-पल्लवः, किसलयम् , इति २ पत्रादियुक्ते शाखायाः पवेणि । तत्र किसलयं पुंसि क्लीबे च ।।---विस्तारः शाखापल्लवसमुदायलक्षण आभोगः विटप उच्यते ॥-वृक्षादीनां फलं सस्यमित्युच्यते । प्रसवः पुष्पादिः बध्यते येन तत् वृन्तमुच्यते । आमेऽपक्के फले शलाटुरिति १ । शुष्के फले वानमिति १ । उभे शलाटुर्वानं च त्रिषु त्रिलिङ्गयाम् ॥ क्षारकः, जालकम् , इति २ नूतनकलिकायाः । तत्र जालकं क्लीबे एव ॥–कलिका, कोरकः, इति • अस्फुटितपुष्पस्य ॥—गुच्छकः, स्तबकः, इति २ कलिकादिभिराकीर्णस्य पल्लवग्रन्थेः । पुष्पादिस्तबके गुच्छ इति ॥–कुङ्मलः, मुकुलः, इति २ ईषद्विकसितकलिकायाम् ॥-सुमनसः, पुष्पम् , प्रसूनम् , कुसुमम् , सुमम् , इति ५ पुष्पस्य ॥-मकरन्दः, पुष्परसः, इति २ पुष्पमधुनि ॥परागः, सुमनोरजः, इति २ पुष्परेणोः । अश्वत्थकपित्थादीनामभिधानं प्रसवे पुष्पे फले मूले च वर्तमानं तत् द्विहीनं ज्ञेयम् । हरीतक्याः फलं हरीतकी । आदिना कोशातकी, कर्कटी, द्राक्षेत्यादि । अश्वत्थस्य फलं आश्वत्थम् । वेणोः फलं वैणवम् । प्लक्षस्य फलं साक्षम् । न्यग्रोधस्य फलं नैयग्रोधम् । इङ्गुद्याः फलं ऐङ्गुदम् । बृहत्याः फलं वाहतम् ॥-जम्बूः, जम्बु, जाम्बवम् , इति ३ जम्ब्वाः फले । जम्बूः स्त्री ॥-जातीयूथिकामल्लिकेत्यादयः पुष्पे वर्तमानाः
For Private and Personal Use Only