________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पतयः ६५५-६७६] द्वितीयं काण्डम् लता प्रतानिनी वीरुद्गुल्मिन्युलप इत्यपि
६६७ नगाद्यारोह उच्छ्राय उत्सेधश्वोच्छ्यश्च सः ६६८ अस्त्री प्रकाण्डः स्कन्धः स्यान्मूलाच्छाखावधिस्तरोः ६६९ समे शाखालते स्कन्धशाखाशाले शिफाजटे
६७० शाखाशिफाऽवरोहः स्यान्मूलाच्चाग्रं गता लता शिरोऽयं शिखरं वा ना मूलं बुध्नोऽजिनामकः ६७२ सारो मजा नरि त्वक् स्त्री वल्कं वल्कलमस्त्रियाम् ६७३ काष्ठं दार्विन्धनं त्वेध इध्ममेधः समिस्त्रियाम् ६७४ निष्कुहः कोटरं वा ना वल्लरिर्मञ्जरिः स्त्रियो ६७५ पत्रं पलाशं छदनं दलं पर्ण छदः पुमान्
६७६
इति २ ।।-वल्ली, व्रततिः, लता, इति ३ लतायाः॥-वस्त् , गुल्मिनी, उलपः, इति ३ या प्रतानिनी शाखादिभिर्विस्तृता लता तत्रेत्यर्थः। तत्र वीरुत् धान्तः ॥ नगाद्यारोहो वृक्षादीनामुञ्चत्वं तत्र उच्छ्रायः, उत्सेधः, उच्छ्रयः, इति ३ ॥---प्रकाण्डः, स्कन्धः, इति २ तरोर्मलमारभ्य शाखापर्यन्तो यो भागस्तत्र ॥-- शाखा, लता, इति २ शाखायाः ॥ स्कन्धशाखा, शाला, इति २ प्रधानशाखायाः ॥ शिफा, जटा, इति २ तरुमलस्य ॥-शिखायाः शिफा मूलं अवरोह इत्युच्यते । मूलादृक्षमूलमारभ्याग्रपर्यन्तं गता लता गुडूच्यादिरपि अवरोह इत्युच्यते। शिरसोऽग्रं शिरोऽयं तत् शिखरमित्युच्यते॥मूलम् , बुनः, अभिनामकः, इति ३ वृक्षादेर्मूलस्य ॥ सारः, मजा, इति २ वृक्षादेः स्थिरांशे । तत्र मजा नान्तः । नरि पुंसि ॥ त्वक् , वल्कम् , वल्कलम् , इति ३ त्वचः । तत्र वल्कादिद्वयं क्लीबपुंसोः ॥-काष्टम् , दारु, इति २ काष्ठमात्रस्य ॥ इन्धनम् , एधः, इध्मम् , एधः, समित् , इति ५ शुष्कस्य तृणकाष्ठादेः । तत्र आद्य 'एधः'शब्दः सान्तः क्लीबे । अन्यस्त्वदन्तः पुंसि । समित् धान्तः स्त्रियाम् ॥-निष्कुहः, कोटरम् , इति वृक्षगतविवरस्य । कोटरं वा ना पक्षे पुमान् ।।-वल्लारेः, मञ्जरिः, इति २ तुलस्यादेरभिनवोद्भिदि ॥-पत्रम् , पलाशम् , छदनम् , दलम् , पर्णम् , उदः, इति ६ पत्रस्य ।
For Private and Personal Use Only