________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पङ्कयः ५६७-५८९ ]
द्वितीयं काण्डम्
स्त्री शर्करा शर्करिलः शार्करः शर्करावति देश एवादिमावेवमुन्नेयाः सिकतावति देशो नद्यम्बुवृष्ट्यम्बुसंपन्नत्रीहिपालितः स्यान्नदीमातृको देवमातृकश्च यथाक्रमम् सुराज्ञि देशे राजन्वान् स्यात्ततोऽन्यत्र राजवान् गोष्ठं गोस्थानकं तत्तु गोष्ठीनं भूतपूर्वकम् पर्यन्तभूः परिसरः सेतुरालौ स्त्रियां पुमान् वामलूरश्च नाकुश्च वल्मीकं पुंनपुंसकम् अयनं वर्त्म मार्गाध्वपन्थानः पदवी सृतिः सरणिः पद्धतिः पद्या वर्तन्येकपदीति च अतिपन्थाः सुपन्थाश्च सत्पथश्चार्चितेऽध्वनि व्यध्वो दुरध्वो विपथः कदध्वा कापथः समाः
ر
५५
५८०
५८१
५८२
५८३
५८४
५८५
५८६
५८७
५८८
५८९
"
-अनूपसदृशः कचिन्नयादेरुपान्तदेशः कच्छ इत्युच्यते ॥ - शर्करा, शर्करिलः, इति २ वालुकायुक्तदेशे ॥ - शार्करः शर्करावान् इति २ वालुकायुक्तस्य देशादेः । आदिमौ शर्कराशर्करिलौ देशे एव । एवं सिकतावत्युन्नेया ऊहनीयाः । सिकताः, सिकतिल इति २ सिकतायुक्तस्य देशस्य । सैकतः, सिकतावान् इति २ वालुकायुक्तस्य देशादेः ॥नयम्बुभिर्वृष्ट्यम्बुभिश्च संपन्नैव्रीहिभिः पालितो देशः क्रमेण नदीमातृको देवमातृकश्च स्यात् ॥ धर्मशीलः शोभनो रराजा यत्र स सुराजा, तस्मिन्देशे राजन्वान् इति । ततोऽन्यत्र राजमात्रयुक्ते देशे राजवान् इति ॥ - गोष्टम्, गोस्थानकम् इति २ गवां स्थानस्य ॥-तगोष्टं भूतपूर्वकं चेत् गौष्ठीनमित्युच्यते ॥ - पर्यन्तभूः परिसरः, इति २ नदीपर्वतादीनामुपान्तभुवः ॥ सेतुः, आलिः, इति २ सेतोः ः ॥ - वामलूरः नाकुः, वल्मीकम् इति ३ वल्मीकस्य ॥ अयनम्, वर्त्म, मार्गः, अध्वा, पन्थाः, पदवी, सृतिः, सरणिः, पद्धतिः, पया, वर्तनी, एकपदी, इति १२ मार्गस्य ॥ - अतिपन्थाः, सुपन्थाः, सत्पथः, इति ३ अर्चितेऽध्वनि शोभने मार्गे ॥–व्यध्वः, दुरध्वः, विपथः, कदध्वा, कापथः, इति ५ दुर्मार्गस्य
"
For Private and Personal Use Only
५७८
५७९
1