________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
५६
Acharya Shri Kailassagarsuri Gyanmandir
अमरकोषे
अपन्थास्त्वपथं तुल्ये शृङ्गाटकचतुष्पथे प्रान्तरं दूरशून्योऽध्वा कान्तारं वर्त्म दुर्गमम् गव्यूतिः स्त्री क्रोशयुगं नल्वः किष्कुचतुःशतम् घण्टापथः संसरणं तत्पुरस्योपनिष्करम् 'द्यावापृथिव्यौ रोदस्यो द्यावाभूमी च रोदसी दिवस्पृथिव्यौ गञ्जा तु रुमा स्याल्लवणाकरः ३. पुरवर्ग: पूः स्त्री पुरीनगर्यौ वा पत्तनं पुटभेदनम् स्थानीयं निगमोऽन्यत्तु यन्मूलनगरात्पुरम् तच्छाखानगरं वेशो वेश्याजनसमाश्रयः आपणस्तु निषद्यायां विपणिः पण्यवीथिका रथ्या प्रतोली विशिखा स्याच्चयो वप्रमस्त्रियाम् प्राकारो वरणः सालः प्राचीनं प्रान्ततो वृतिः
[ ३. पुरवर्ग:
५९०
५९१
५९२
५९३
**
५९४
५९५
५९६
५९७
५९८
५९९
तत्र कदध्वा नान्तः ॥ अपन्थाः, अपथम् इति २ अमार्गस्य ॥ शृङ्गाटकम्, चतुष्पथम्, इति २ चतुष्पथस्य ॥ - दूरश्चासौ शून्यश्च दूरशून्यः, , छायाजला दिवर्जितो दूरस्थोऽध्वा मार्गः प्रान्तरमित्युच्यते ॥ - यद्दुर्गमं चोरकण्टकाद्युपद्रवयुक्तं वर्त्म मार्गः कान्तारमित्युच्यते ॥ क्रोशयुगं गव्यूतिरित्युच्यते ॥ - किष्कूणां हस्तानां चतुःशतं नल्व इत्युच्यते ॥ घण्टापथः, संसरणम् इति २ राजपथमात्रस्य ॥ - तत्संसरणं पुरस्य नगरस्य चेत् उपनिष्करमिति ॥
५९४–६३३. पूः, पुरी, नगरी, पत्तनम्, पुटमेदनम्, स्थानीयम्, निगमः, इति ७ नगरस्य ॥ - यत् प्राकारादिवेष्टितं विस्तीर्ण पुरं तत् स्थानीयादिनामकमिति । यन्मूलनगरादन्यत्पुरं तच्छाखानगरमित्यन्वयः ॥ - वेश्याजनस्य समाश्रयो निवेशस्थानं वेश इत्युच्यते ॥ -- आपणः, निषद्या, इति २ क्रय्यवस्तुशालाः ॥ विपणिः पण्यवीथिका, इति २ क्रय्यवस्तुशाला पङ्कः ॥ रथ्या प्रतोली, विशिक्षा, इति ३ ग्रामाभ्यन्तरमार्गस्य ॥ चयः, वप्रम् इति २ पारखोद्धृतमृत्तिकाकूटस्य ॥ - प्राकारः, वरणः, सालः,
•
For Private and Personal Use Only