SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३५ ३६० ur ur पतयः ३४७-३६६] प्रथम काण्डम् आरवारावसंरावविरावा अथ मर्मरः ३५७ स्वनिते वस्त्रपर्णानां भूषणानां तु शिञ्जितम् ३५८ निक्वाणो निक्कणः क्वाणः क्वणः वणनमित्यपि ३५९ वीणायाः क्वणिते प्रादेः प्रक्वाणप्रकणादयः कोलाहलः कलकलस्तिरश्चां वाशितं रुतम् ३६१ स्त्री प्रतिश्रुत्प्रतिध्वाने गीतं गानमिमे समे ३६२ १०. नाट्यवर्गः निषादर्षभगान्धारषड्जमध्यमधैवताः ३६३ पञ्चमश्चेत्यमी सप्त तन्त्रीकण्ठोत्थिताः स्वराः ३६४ काकली तु कले सूक्ष्मे ध्वनौ तु मधुरास्फुटे कलो मन्द्रस्तु गम्भीरे तारोऽत्युच्चैस्त्रयस्त्रिषु 'नृणामुरसि मध्यस्थो द्वाविंशतिविधो ध्वनिः स मन्द्रः कण्ठमध्यस्थस्तारः शिरसि गीयते' ** निस्वानः, निस्वनः, आरवः, आरावः, संरावः, विरावः, इति १७ शब्दमात्रस्य ॥-वस्त्रपर्णानां स्खनिते शब्दे मर्मर इति ॥-भूषणानां नूपुरादीनां स्खनिते, शिञ्जितमिति ॥ निक्वाणः, निक्कणः, क्वाणः, कणः, क्वणनम्, इति ५ वीणादिस्खनितस्य ॥ प्रादेरुपसर्गात् ये प्रकाणः, प्रक्वणः, इत्यादयस्ते वीगाया एव क्वणिते नान्यत्र ॥-कोलाहलः, कलकलः, इति २ बहुभिः कृतस्य स्पष्टशब्दस्य ॥ तिरश्चां पक्षिणां रुतं शब्दः वाशितम् ॥-प्रतिश्रुत् , प्रतिध्वानः, इति २ प्रतिशब्दस्य ॥ गीतम् , गानम् , इति २ गायनस्य ॥ ___३६३-४३८, निषादः, ऋषभः, गान्धारः, षड्जः, मध्यमः, धैवतः, पञ्चमः, इत्यमी तन्त्रीभ्यः कण्ठेभ्यश्वोत्थिताः सप्त स्वरा ज्ञेयाः । तत्र निषादं नर्दन्ति गजाः, ऋषभं गावः, गान्धारं अजादयः, षड्जं मयूराः, मध्यमं क्रौञ्चाः, धैवतमश्वाः, पञ्चमं कोकिलाः इति ॥-ईषत् कलः काकलीति ॥ मधुरः श्रुतिसुखः, स चासावस्फुटोऽव्यक्ताक्षरः; एतादृशे ध्वनौ कल इति । गम्भीरे ध्वनी मन्द्र इति । अत्युच्चेनौ तार इति। त्रयः कलमन्द्रतारास्त्रिषु ॥ यः समन्वितलयः सम्यगन्वितोऽनु - For Private and Personal Use Only
SR No.020029
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorNarayanram Acharya
PublisherChaukhamba Sanskrit Bhavan
Publication Year2004
Total Pages339
LanguageHindi
ClassificationDictionary
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy