________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३४
Acharya Shri Kailassagarsuri Gyanmandir
अमरकोषे
अत्यर्थमधुरं सान्त्वं संगतं हृदयंगमम् निष्ठुरं परुषं ग्राम्यमश्लीलं सूनृतं प्रिये सत्येss संकुल क्लिष्टे परस्परपराहते लुप्तवर्णपदं ग्रस्तं निरस्तं त्वरितोदितम् अम्बूकृतं सनिष्ठीवमबद्धं स्यादनर्थकम् अनक्षरमवाच्यं स्यादाहतं तु मृषार्थकम् 'सोल्लुण्ठनं तु सोत्प्रासं भणितं रतिकूजितम् श्राव्यं हृद्यं मनोहारि विस्पष्टं प्रकटोदितम् अथ लिष्टमविस्पष्टं वितथं त्वनृतं वचः सत्यं तथ्यमृतं सम्यगमूनि त्रिषु तद्वति शब्दे निनादनिनदध्वनिध्वानरवस्वनाः स्वाननिर्घोषनिर्ह्रादनादनिस्वान निस्वनाः
[ ९. शब्दादिवर्गः
३४७
३४८
३४९
३५०
३५१
३५२
For Private and Personal Use Only
***
****
३५३
३५४
३५५
३५६
-
"
या शुभात्मिका वाक् सा कल्या ॥ - यदत्यर्थमतिशयेन मधुरं तत् सान्त्वम् ॥संगतम्, हृदयंगमम्, इति २ संबद्धवचनस्य ॥ -- निष्ठुरम्, परुषम्, इति २ ककेशवचनस्य ॥ - ग्राम्यम्, अश्लीलम् इति २ शिथिलवचसः ॥ - यत्प्रियं सत्यं वचनं तत्र सूनृतमिति ॥ - यत्परस्परेण 'माता मे वन्ध्या' इतिवत् पूर्वापर विरुद्धं तत्र संकुलम्, क्लिटम, इति नामद्वयम् । यथा - ' - ' पश्यत्यचक्षुः स शृणोत्यकर्णः ' ॥ - यलुप्तवर्णपदमसंपूर्णोच्चारितं वचस्तत् ग्रस्तमिति ॥ यत्त्वरितोदितं तन्निरस्तम् ॥ सनिष्ठीवं लालायुक्तं तत् अम्बूकृतमुच्यते ॥ - यदनर्थकमर्थशून्यं तदबद्धं स्यात् ॥ - अनक्षरम्, अवाच्यम् इति २ वक्तुमनर्हस्य वचसः ॥ - मृषार्थकमत्यन्ताभूतार्थकं तत् आहतं ज्ञेयम् । यथा - 'एष वन्ध्यासुतो याति खपुष्पकृतशेखरः । भृगतृष्णाम्भसि स्नातः शशशृङ्गधनुर्धरः ॥' इति ॥ - लिष्टम्, अविस्पष्टम् इति २ अव्यक्तवचनस्य ॥ - यदनृतं वचः तत् वितथमित्युच्यते ।
1 ---
>
•
सत्यम्, तथ्यम्, ऋतम्, सम्यक् इति ४ सत्यस्य । अमूनि तद्वति सत्यवति त्रिषु । यथा -- सत्या स्त्री, सत्यः पुमान्, सत्यं कुलम् इति ॥ —शब्दः, निनादः, निनदः, ध्वनिः, ध्वानः, रवः, खनः, खानः, निर्घोषः, निर्ह्रादः, नादः,
>