________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९८
०
०
३०५
०
पतयः २८६-३०८] प्रथमं काण्डम् आमोदः सोऽतिनिहोरी वाच्यलिङ्गत्वमागुणात्
२९७ समाकर्षी तु निर्हारी सुरभिर्घाणतर्पणः इष्टगन्धः सुगन्धिः स्यादामोदी मुखवासनः २९९ पूतिगन्धिस्तु दुर्गन्धो विस्रं स्यादामगन्धि यत् शुक्लशुभ्रशुचिश्वेतविशदश्येतपाण्डराः
३०१ अवदातः सितो गौरो वलक्षी धवलोऽर्जुनः ३०२ हरिणः पाण्डुरः पाण्डुरीषत्पाण्डुस्तु धूसरः कृष्णे नीलासितश्यामकालश्यामलमेचकाः ३०४ पीतो गौरो हरिद्राभः पालाशो हरितो हरित् लोहितो रोहितो रक्तः शोणः कोकनदच्छविः ३०६ अव्यक्तरागस्त्वरुणः श्वेतरक्तस्तु पाटलः श्यावः स्यात्कपिशो धूघधूमलों कृष्णलोहिते स गन्ध आमोद उच्यते ॥ - इतः परम् आ गुणात् 'गुणे शुक्लादयः' (३११) इति वक्ष्यमाणाद्गुणशब्दात्प्राग्वाच्यलिङ्गत्वमभिधेयानुसारेण निलिङ्गत्वम् ।।-समाकर्षी, निर्हारी, इति २ दरनिपातिनो गन्धद्रव्यस्य ।।-सुरभिः, घ्राणतर्पणः, इष्टगन्धः, मुगन्धिः, इति ४ शोभनगन्धयुक्तस्य ॥-आम दी, मुखवासनः, इति २ यन्मुखं वासयति तस्य ताम्बूलादेः॥ पूतिगन्धिः, दुर्गन्धः, इति २ अनिटगन्धयुक्तस्य ॥--- यदामगन्धि तद्विस्त्रम् । अपक्कमांसादिगन्धस्य ॥---शुक्लः, शुभ्रः, शुचिः, श्वेतः, विशदः, श्येतः, '1ण्डरः, अवदातः, सितः, गौरः, [अवलक्षः वलक्षः, धवलः, अर्जुनः, हरिणः, पाण्डुरः, पाण्डः, इति १६ शकस्य ॥-ईषत्पाण्डः, धूसरः, इति २ ईपद्धवलस्य ॥-कृष्णः, नीलः, असितः, श्यामः, कालः, श्यामलः, मेचकः, इति , नील्यादिगतवर्णस्य ॥-पीतः, गौरः, हरिद्राभः, इति ३ पीतस्य ॥-पालाशः, हरितः, हरित् , इति ३ शिरीषादिपत्रगतवर्णस्य ॥-लोहितः, रोहितः, रक्तः, इति ३ रक्तस्य ।।--यः कोकनदकछवी रक्तात्पलाभः स शोण इति ।।-योऽव्यक्तराग ईषद्रक्तः सोऽरुणः ॥यः श्वेतमिश्रो रक्तः स पाटल इति ॥-३यावः, कपिशः, इति २ धूसरारुणवर्णस्य ॥ धूम्रः, धूमलः, कृष्णलोहितः, इति ३ कृष्णमिश्नलोहितवर्णस्य
For Private and Personal Use Only