________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमरकोपे
[ ९. शब्दादिवर्गः कडारः कपिलः पिङ्गपिशङ्गो कदुपिङ्गलो . ___३०९ चित्रं किर्मीरकल्माषशवलैताश्च कबुरे । गुणे शुक्लादयः पुंसि गुणिलिङ्गास्तु तद्वति ३११
९. शब्दादिवर्गः ब्राह्मी तु भारती भाषा गीवाग्वाणी सरस्वती ३१२ व्याहार उक्तिर्लपितं भाषितं वचनं वचः ३१३ अपभ्रंशोऽपशब्दः स्याच्छास्त्रे शब्दस्तु वाचकः ३१४ तिड्-सुबन्तचयो वाक्यं क्रिया वा कारकान्विता श्रुतिः स्त्री वेद आम्नायस्त्रयी धर्मस्तु तद्विधिः ३१६ स्त्रियामृक्सामयजुषी इति वेदास्त्रयस्त्रयी ३१७
३१५
॥-कडारः, कपिलः, पिङ्गः, पिशङ्गः, कद्रुः, पिङ्गलः, इति ६ पिङ्गलवर्णस्य ॥-चित्रम् , किर्मीरः, कल्माषः, शबलः, एतः, कर्तुरः, इति ६ कर्बरस्य । विचित्रवर्णस्येत्यर्थः ।।-शुक्ला यो गुणे गुणमात्रे वर्तमानाः पुंसि, यथा-'अस्य पटस्य शुकं रूपम्' । तद्वति गुणवति वस्तुनि वर्तमांना गुणिलिङ्गा अभिधेयलिहाः । यथा-'शुक्ला शाटी', 'शुक्लः पटः', 'शुक्लं वस्त्रम्' । रोहितादीनां श्रीत्वे तु -'श्येनी श्येता, रोहिणी रोहिता, लोहिनी लोहिता' इत्यादि ॥
३१२-३६२. ब्राह्मी, भारती, भाषा, गीः, वाक् , वाणी, सरस्वती, व्याहारः, उक्तिः, लपिनम् , भाषितम् , वचनम् , वचः, इति १३ वचनस्य ॥-अपभ्रष्टः, शब्दः 'गावी, गोणी' इत्याद्यपशब्दः, सोऽपभ्रंश इत्युच्यते॥-शास्त्रे व्याकरणादौ यो वाचकः स शब्द इत्युच्यते, यथा-ओतप्रोतत तूनां वाचकः पटः इति ।तिसुबन्तच यः तिउन्तसुब-तपदसमूहो वाक्यम्। तिङन्तचयो यथा-पचतिभवति । पाको भवतीत्यर्थः । सुबन्तचयो यथा-'प्रकृतिसिद्धमिदं हि महात्मनाम्' - कारकान्विता कारकैः संबद्धा क्रिया वाक्यमुच्यते। यथा-'देवदत्त! गामभिरक्ष शुक्लदण्डेन' ॥ श्रुतिः, वेदः, आम्रायः त्रयी, इति ४ वेदस्य ।।तद्विधिर्वेदिको विधिर्यागादिधर्म इत्युच्यते ॥ ऋक्, साम, यजुः, इति त्रयो
For Private and Personal Use Only