________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमरकोपे
[८. धीवर्गः
२८७ ૨૮૮
संविदागूः प्रतिज्ञानं नियमानवसंश्रयाः अङ्गीकाराभ्युपगमप्रतिश्रवसमायः मोक्षे धीझनमन्यत्र विज्ञानं शिल्पशास्त्रयोः मुक्तिः कैवल्यनिर्वाण)योनिःश्रेयसामृतम् मोक्षोऽपवर्गो थाज्ञानमविद्यामतिः स्त्रियाम् रूपं शब्दो गन्धरसस्पर्शाश्च विषया अमी गोचरा इन्द्रियार्थाश्च हृषीकं विषयीन्द्रियम् कर्मेन्द्रियं तु पाय्यादि मनोनेत्रादि धीन्द्रियम् तुवरस्तु कषायोऽस्त्री मधुरो लवणः कटुः तिक्तोऽम्लश्च रसाः पुंसि तद्वत्सु षडमी त्रिषु विमर्दोत्थे परिमलो गन्धे जनमनोहरे
२९० २९१ २९२ २९३ २९४ २९५ २९६
मतिः, भ्रमः, इति ३ अयथार्थज्ञानस्य ॥ संवित् , आगूः, प्रतिज्ञानम् , नियमः, आश्रयः, संश्रवः,अङ्गीकारः,अभ्युपगमः,प्रतिश्रवः, समाधिः, इति १० अङ्गीकारस्य । आगूर्वधूवत् ॥-~मोक्षविषये या धीवुद्धिस्तज्ज्ञानम् ॥-मोक्षशास्त्रादन्यत्र शास्त्र शिल्पे चित्रादौ च धीर्विज्ञानमुच्यते॥-मुक्तिः, कवल्यम् , निर्वाणम् ,श्रेयः, निःश्रेयसम् , अमृतम् , मोक्षः, अपवर्गः, इति ८ मोक्षम्य ॥---अज्ञानम् , अविद्या, अहंमतिः, इति ३ अज्ञानस्य ।। रू.पम् , शब्दः, गन्धः, रसः, स्पशः, एते ५विषया इति गोचरा इति इन्द्रियार्था इति चोच्यन्ते ।।-हृषीकम् , विषयि, इन्द्रियम् , इति ३ चक्षुरादेरिन्द्रियस्य ॥-पायवादि पायूपस्थादि कर्मेन्द्रिय. मुच्यते । आदिना वागादि । ('पायूपस्थं पाणिपादौ वाक् चेतीन्द्रियसंग्रहः । उत्सर्ग आनन्दादानगत्यालापाश्च तत्कियाः' ॥-मनोनेत्रादि धीन्द्रियमुच्यते, आदिना श्रोत्रादि । ('मनो कर्णस्तथा नेत्रं रसना च त्वचा सह । नासिका चेति षट् तानि धीन्द्रियाणि प्रचक्षते')॥--तुवरः, कषायः, इति २ तुवरस्य । मधुरः, लवणः,कटुः, तिक्तः, अम्लः, एते तुवराद्याः षडपि रसा उच्यन्ते। अमी तुवराद्याः षडपि रसमात्रे वर्तमानाः, पुंसि । तद्वत्सु रसवत्सु वर्तमानास्त्रिषु, वाच्यलिङ्गा इत्यर्थः॥-विमर्दोत्थे संघर्षणादिनोत्पन्ने जनमनोहरे गन्धे परिमल इति ॥-योऽतिनिर्हार्यत्यन्तसमाकर्षी
For Private and Personal Use Only