________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८
१८५
१८९
अमरकोषे
[६. दिग्वर्गः शीतं गुणे तद्वदर्थाः सुपीमः शिशिरो जडः १८२ तुषारः शीतलः शीतो हिमः सप्तान्यलिङ्गकाः १८३ ध्रुव औत्तानपादिः स्यादगस्त्यः कुम्भसंभवः १८४ मैत्रावरुणिरस्यैव लोपामुद्रा सधर्मिणी नक्षत्रमृक्षं भं तारा तारकाप्युडु वा स्त्रियाम् १८६ दाक्षायण्योऽश्विनीत्यादितारा अश्वयुगश्विनी १८७ राधा विशाखा पुष्ये तु सिध्यतिष्यौ श्रविष्ठया १८८ समा धनिष्ठाः स्युः प्रोष्ठपदा भाद्रपदाः स्त्रियः मृगशीर्ष मृगशिरस्तस्मिन्नेवाग्रहायणी हिमस्य ।-नपुंसकलिङ्गः 'शीत' शब्दश्च गुणे स्पर्शविशेष एव, न तु गुणिनि ॥-सुषीनः, शिशिरः, जडः, तुषारः, शीतलः, शीतः, हिमः, एते ७ तद्वदर्थास्तद्वान् शीतगुणवानर्थो येषां ते तथा । तं चायलिङ्गका विशेष्यनिन्नाः । 'तुषारहिम शीत'शब्दा निरूढलक्षणया गुणिन्यपि वर्तन्त इत्युभयत्र पाठताः ॥-बुवः,
ओत्तानपादिः, इति २ उत्तानपादपुत्रस्य ॥-अगस्त्यः, कुम्भसंभवः, मेत्रावरुणिः, इति ३ अगस्त्यस्य ॥-अस्यागस्त्यस्य सधर्मिणी पत्नी लोपामुद्रा ॥-नक्षत्रम् , ऋक्षम् , भम् , तारा, तारका, उडु, इति ६ नक्षत्रमात्रस्य । 'उडु' स्त्री-नपुंसकयोः। 'अपि'शब्दात्तारकाऽपि तथा ॥-अश्विनीत्यादितारा अश्विन्यादि (अश्विनी, भरणी, कृत्तिका, रोहिणी, मृगशीर्षम् , आर्द्रा, पुनर्वसुः, पुष्यः, आश्लेषा, मघा, पूर्वा, उत्तरा, हस्तः, चित्रा, स्वाती, विशाखा, अनुराधा, ज्येष्ठा, मूलम् , पूर्वाषाढा, उत्तराषाढा, श्रवणः, धनिष्ठा, शततारका, पूर्वाभाद्रपदा, उत्तराभाद्रपदा, रेवती, इति) २७ नक्षत्राणि दाक्षायणीसंज्ञकानि ॥-अश्वयुक, अश्विनी, इति २ अश्विन्याः ॥-राधा, विशाखा, इति २ विशाखायाः ॥-पुष्यः, सिध्यः, तिष्यः, इति ३ पुष्यस्य ॥–श्रविष्ठा, धनिष्ठा, इति २ धनिष्ठायाः ॥ श्रविष्ठया समा श्रवेष्ठातुल्येत्यर्थः।--प्रोष्ठपदाः, भाद्रपदाः, इति २ पूर्वाभाद्रपदोत्तराभाद्रपदासु ॥ पूर्वे प्रोष्ठपदे द्वे, उत्तरे च द्वे । एवं चतुःसंख्याकत्वाद्बहुवचनम् । स्त्रियः स्त्रीलिङ्गाः स्युः ॥-भृगशीर्षम् , मृगशिरः, आग्रहायणी, इति ३ मृगशीर्षस्य ॥ तस्य मृगशीर्षस्य शिरोदेशे याः पञ्च तारका
For Private and Personal Use Only