________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पतयः १५९-१८१]
प्रथमं काण्डम्
अपिधानतिरोधानपिधानाच्छादनानि च
१७०हिमांशुश्चन्द्रमाश्चन्द्र इन्दुः कुमुदबान्धवः
१७१ विधुः सुधांशुः शुभ्रांशुरोषधीशो निशापतिः १७२ अजो जैवातृकः सोमो ग्लौमूंगाङ्कः कलानिधिः १७३ द्विजराजः शशधरो नक्षत्रेशः क्षपाकरः
१७४ कला तु पोडशो भागो विम्बोऽस्त्री मण्डलं त्रिषु । १७५ भित्तं शकलखण्डे वा पुंस्योऽधं समंऽशके चन्द्रिका कौमुदी ज्योत्स्ना प्रसादस्तु प्रसन्नता कलङ्काको लाञ्छनं च चिह्न लक्ष्म च लक्षणम् १७८ सुषमा परमा शोभा शोभा कान्तिद्युतिश्छविः अवश्यायस्तु नीहारस्तुषारस्तुहिनं हिमम्
१८० प्रालेयं मिहिका चाथ हिमानी हिमसंहतिः
१८२ अपिधानम् , तिरोधानम् , पिधानम , आच्छादनम् , इति ८ आच्छादनस्य । तत्र 'अन्तर्धाव्यवधे' स्त्रियाम् । 'अन्तधिः' पुंसि ॥---हिमांशुः, चन्द्रमाः, चन्द्रः, इन्दुः, कुमुदबान्धवः, विधुः, सुधांशुः, शुभ्रांशुः, ओषधीशः, निशापतिः, अब्जः, जैवातृकः, सोमः, ग्लौः, मृगाङ्कः, कलानिधिः, द्विजराजः, शशधरः, नक्षत्रेशः, क्षपाकरः, इति २० चन्द्रस्य ॥--चन्द्रमण्डलस्य षोडशो भागः कलासंज्ञः ।।--बिम्बः, मण्डलम्, इति २ विम्बस्य ॥-भित्तम् , शकलम् , खण्डम् , अर्धम् , इति ४ शकलस्य ॥ तत्र 'भित्तम्' नपुंसकम् । तत्र 'शकल. खण्डे' क्लीब-पुंसोः । 'अधः' पुंस्येव । यथा--कम्बलस्याधेः; खण्ड इत्यर्थः । वाच्यलिङ्गोऽपि यथा---'अर्धा शाटी', 'अर्धः पटः', 'अर्ध वस्त्रम्' ॥-अर्धमिति १ समेंऽशके विभागे। तन्नपुंसकमेव ॥-चन्द्रिका, कौमुदी, ज्योत्स्ना, इति ३ चन्द्रप्रभायाः ॥-प्रसादः, प्रसन्नता, इति २ नैर्मल्यस्य ॥कलङ्कः, अङ्कः, लाञ्छनम् , चिह्नम् , लक्ष्म , लक्षणम् , इति ६ चिह्नस्य ।।सुषमेति १ परमायाः शोभायाः ॥--शोभा, कान्तिः, द्युतिः, छविः, इति ४ शोभामात्रस्य ।।-अवश्यायः, नीहारः, तुषारः, तुहिनम् , हिमम् , प्रालेयम् , मिहिका, इति ७ हिमस्य ॥-हिमानी, हिमनंहात, ते २ महतो
अ. को. स. २
mamimansurtambama-MHema
m
For Private and Personal Use Only