________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमरकोषः
. [प्रथमकाण्डे 'हरिणः पाण्डुरः पाण्डुरोषेत्पाण्डुस्तु धूसरः॥ १३ ॥
कृष्णे नोला-ऽसित-श्याम-काल-श्यामल-मेचकाः। ४पीतो गौरो हरिद्राभः, "पालाशो हरितो हरित् ॥ १४ ॥ 'रोहितो लोहितो रक्तः, शोणः कोकनदच्छविः । 'अव्यक्तरागस्त्वरुणः, श्वेतरक्तस्तु पाटलः ॥ १५ ॥ १°श्यावः स्यात्कपिशो, धूम्र-धूमलौ कृष्णलोहिते। १२कडारः कपिलः पिङ्गपिशङ्गौ कद्रुपिङ्गलौ ॥ १६ ॥ ५३चित्रं किर्नीरकल्माषशबलताश्च कर्बुरे। ( १ ) ईषत् पीतवर्णस्य त्रीणि नामानि शब्दार्णवे विशेष:--
'पाण्डस्तु पीतभागार्थः केतकी धूलिसन्निभः ।
धूसरस्तु सितः पीतलेशवान् बकुलच्छविः ।। [ हल्के पीले रंग के ३ नाम । ] (२) धूसरवर्णस्यकं नाम । [ धूसर वर्ण का १ नाम । (३) कृष्णवर्णस्य सप्त नामानि । शब्दार्णवस्तु कृष्णमेचकयोरित्थं भेदमाह--'मेचक: कृष्णनीलः स्यादतसीपुष्पसन्निभः' ॥ [ काले रंग के ७ नाम । ] ( ४ ) हरिद्राभपीतवर्णस्य नामत्रयम् । [ पीला रंग के ३ नाम । ] ( ५ ) हरितवर्णस्य नामत्रयम् । [ हरा रंग के ३ नाम । ] ( ६ ) रक्तवर्णस्य नामत्रयम् । [ लाल रंग के ३ नाम । ] (७) अत्यन्तरक्तस्य नामद्वयम् । [गहरा लाल रंग के २ नाम । ] (८) ईषदरक्तस्य द्वे नामनी। [ हल्का लाल रंग के २ नाम । ] (९) श्वेतवर्णमिश्रितरक्तवर्णस्य नामद्वयम् । [ सफेदी युक्त लाल रंग के २ नाम । ] ( १० ) कृष्णपीतमिश्रितवर्णस्य नामद्वयम् । [ काला पीला मिले हुए रंग के २ नाम । ] ( ११) धूम्रवर्णस्य नामत्रयम् । [ धूम्रवर्ण के ३ नाम । ] ( १२ ) षट् कपिलवर्णस्य नामानि । अत्र शब्दार्णवे विशेषः । तद्यथा--
'सित-पीत-हरिद्-रक्तः कडारस्तृणवह्निवत् । अयन्तूद्रिक्तपीताङ्गः कपिलो गोविभूषणः ।। हरितांशेऽधिकेऽसौ तु पिशङ्गः पद्मधूलिवत् । पिशङ्गस्त्वसितावेशात् पिङ्गोः दीपशिखादिषु ।।
पिङ्गलस्तु परच्छायः पिङ्गः शुक्लाङ्गखण्डवत् । इति । [ कपिलवर्ण के ७ नाम ] ( १३ ) विचित्रवर्णस्य षड् नामानि । [ चितकबरा के ६ नाम ।]
For Private and Personal Use Only