________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शब्दादिवर्गः ६ ] रत्नप्रभाव्याख्यासमेतः 'गुणे शुक्लादयः पुंसि, गुणिलिङ्गास्तु तद्वति ॥ १७ ॥
इति धीवर्गः ।
६. अथ शब्दादिवर्गः ब्राह्मो तु भारती भाषा गीर्वाग्वाणी सरस्वती । 'व्याहार उक्तिर्लपितं भाषितं वचनं वचः ॥१॥ ४अपभ्रंशोऽपशब्दः स्याच्छास्त्रे शब्दस्तु वाचकः । तिङ-सुबन्तचयो वाक्यं क्रिया वा कारकान्विता ॥२॥ "श्रुतिः स्त्री वेद आम्नायस्त्रयो-धर्मस्तु तद्विधिः । "स्त्रियामृक्सामयजुषी इति वेदास्त्रयस्त्रयो॥३॥
(१) गुणवाचकाः शुक्लादयः पुंसि । द्रव्यवाचकाः शब्दा विशेष्यनिघ्ना भवन्ति । यथा--शुक्ला भित्तिः। शुक्लं यशः । शुक्ल: केशः । [ गुणवाचक शुक्ल आदि शब्द पुल्लिग होते हैं । और वे ही शब्द द्रव्यवाचक होने पर विशेष्य के लिंग के अनुसार लिंग वाले होते हैं। ]
इति धीवर्गः।
(२) सरस्वत्याः सप्त नामानि । [सरस्वती के ७ नाम ।] (३) भाषणस्य षड् नामानि । केचिदाचार्याः ब्राह्मीत्यारभ्य वचः पर्यन्तम् भाषणस्यैव पर्याया इत्यामनन्ति । [ भाषण के ६ नाम । ] ( ४ ) अपभ्रंशशब्दस्य द्वे नामनी । { अपभ्रंश शब्द के २ नाम । ] (५) व्याकरणादिशास्त्रे यः साधूः स शब्दः । [ वाचकशब्द का १ नाम । ] ( ६ ) तिङन्त-सुबन्तसमूहः, कारकान्विता क्रिया वा वाक्यं भवति । तिङन्तचयः-भवति, एधते प्रभृतिः । सुबन्तचयः-'सूनुः सच्चरितः सती प्रियतमा स्वामी प्रसादोन्मुख.' । [वाक्य लक्षण का १ नाम ।] ( ७ ) वेदस्य चत्वारि नामानि । [ वेद के ४ नाम । ] (८) वेदनिर्दिष्टकर्मण एक नाम । [धर्म । ] (९) वेदत्रयस्य प्रत्येकमेकैकं नाम । [ ऋग्, यजुः, सामवेद के नाम । ] ( १० ) वेदत्रययस्यकं नाम । [ तीनों वेदों का १ नाम । ]
For Private and Personal Use Only