________________
Shri Mahavir Jain Aradhana Kendra
२८
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अमरकोषः
'मिथ्यादृष्टिर्नास्तिकता, व्यापादौ द्रोहचिन्तनम् । समौ सिद्धान्तराद्धान्तौ भ्रान्तिमिथ्यामतिभ्रमः ॥ ४ ॥ " संविदागूः प्रतिज्ञानं नियमाऽऽश्रवसंश्रवाः ।
11411
अङ्गीकाराभ्युपगम-प्रतिश्रव-समाधयः 'मोक्षे धोर्ज्ञानमन्यत्र विज्ञानं शिल्पशास्त्रयोः । 'मुक्तिः कैवल्यनिर्वाणश्रेयोनिःश्रेयसाऽमृतम् ॥ ६ ॥
मोक्षोऽपवर्गोऽऽज्ञानमविद्याऽहम्मतिः स्त्रियाम् । १० रूपं शब्दो गन्धरसस्पर्शाश्च विषया अमी ॥ ७ ॥ गोचरा इन्द्रियार्थाश्च, "हृषीकं विषयीन्द्रियम् । १२ कर्मेन्द्रियं तु पाय्वादि मनोनेत्रादि धीन्द्रियम् ॥ ८ ॥ १४ तुवरस्तु कषायोऽस्त्री, " मधुरो "लवणः कटुः ।
[ प्रथमकाण्डे
( १ ) नास्तिकताया नामद्वयम् । [ नास्तिकता के २ नाम । ] ( २ ) पराहितविचारस्य नामद्वयम् [ अनिष्टचिन्तन के २ नाम । ] ( ३ ) सिद्धान्तस्य द्वे नामनी । [ सिद्धान्त के २ नाम । ] ( ४ ) भ्रान्तेर्नामत्रयम् । [ भ्रान्ति के ३ नाम । ] ( ५ ) स्वीकरणस्य दश नामानि । [ स्वीकार करने के १० नाम । ] ( ६ ) मोक्षोपयोगिनी बुद्धि: ज्ञानम् । [ ज्ञान का १ नाम । ] ( ७ ) शिल्पादिबुद्धेरेकं नाम । [ विज्ञान का १ नाम । ] ( ८ ) अष्टौ नामानि मोक्षस्य । [ मोक्ष के ८ नाम । ] ( ९ ) अज्ञानस्य त्रीणि नामानि । [ अज्ञान के ३ नाम ।] (१०) रूपादिविषयाणां नामानि । [ रूप आदि विषयों के ३ नाम । ] ( ११ ) इन्द्रियाणां त्रीणि नामानि । [ इन्द्रियों के ३ नाम । ] ( १२ ) पाय्वादीनि कर्मेन्द्रियाणि । यथोक्तं ग्रन्थान्तरे - ' पायूपस्थे पाणिपादौ वाक्चेतीन्द्रियसङ्ग्रहः । [ गुद, लिंग आदि को कर्मेन्द्रिय कहते हैं | ] ( १३) मनोनेत्रादीनि ज्ञानेन्द्रियाणि । यथोक्तं ग्रन्थान्तरे'मनः कर्णौ तथा नेत्रं रसना च त्वया सह ।
नासिका चेति षट् तानि धीन्द्रियाणि प्रचक्षते ॥ इति ।
1
[ मन तथा नेत्र आदि को ज्ञानेन्द्रिय कहते हैं । ] ( १४ ) कषायस्य द्वे नामनं [ कषायरस के २ नाम । ] ( १५ ) एकं मधुररसस्य । [ मीठा रस । ] (१६) एकं लवणरसस्य । [ नमकीन रस । ] ( १७ ) एकं कटुरसस्य । यथोक्तं शार्ङ्गधरसंहितायाम् —
'संवेजयेद् यो रसनां निपाते तुदतीव च ।
विदहन् मुख-नासाऽक्ष संस्रावीं स कटुः स्मृतः ॥ इति ।
For Private and Personal Use Only