SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra atai : ५ ] www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रत्नप्रभाव्याख्यासमेतः 'प्राणी तु चेतनो जन्मी जन्तुजन्युशरीरिणः ॥ ३० ॥ जातिर्जातञ्च सामान्यं, व्यक्तिस्तु पृथगात्मता । चित्तन्तु चेतो हृदयं स्वान्तं हृन्मानसं मनः ॥ ३१ ॥ इति कालवर्ग: । ५. अथ धीवर्ग: "बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः । प्रेक्षोपलब्धिश्चित् संवित् प्रतिप्रज्ज्ञप्तिचेतनाः ॥ १ ॥ 'धीर्धारणावती मेधा, सङ्कल्पः कर्म मानसम् । [ 'अवधानं समाधानं प्रणिधानन्तथैव च । ] 'चित्ताभोगो मनस्कारश्चर्चा " सङ्ख्या विचारणा ॥ २ ॥ [ "विमर्शो भावना चैव वासना च निगद्यते । ] १२ अध्याहारस्तर्क ऊहो "विचिकित्सा तु संशयः । सन्देह- द्वापरौ चाऽथ समौ १४ निर्णय निश्चयौ ॥ ३ ॥ २७ ( १ ) प्राणिनः षड् नामानि । [ प्राणी के ६ नाम । ] ( २ ) घटत्वपटत्वाद्येकत्वविशिष्टाया जातेस्त्रीणि नामानि । [ जाति के ३ नाम । ] ( ३ ) घटादिव्यक्तेर्नामद्वयम् । [ व्यक्ति के २ नाम । ] ( ४ ) अष्टौ नामानि मनसः । [ मन के ८ नाम । ] इति कालवर्ग: । (५) बुद्धेश्वतुर्दशनामानि । [ बुद्धि के १४ नाम । ] ( ६ ) मेधायास्त्रीणि नामानि । [ धारणाशक्ति वाली बुद्धि के ३ नाम । ] ( ७ ) मानसिककर्मण एकं नाम । [ संकल्प का १ नाम । ] ( ८ ) समाधानस्य त्रीणि नामानि । [ सावधानता के ३ नाम । ] ( ९ ) मानसप्रत्यक्षस्य नामद्वयम् । [ मानस प्रत्यक्ष के २ नाम । ] ( १० ) त्रीणि विचारणाया नामानि । [ विचार के ३ नाम । ] ( ११ ) त्रीणि नामानि वासनायाः । [ वासना के ३ नाम । ] ( १२ ) त्रीणि नामानि तर्कस्य । [ तर्क के ३ नाम । ] ( १३ ) संशयस्य चत्वारि नामानि । [ सन्देह के ४ नाम | ] ( १४ ) निर्णयात्मकस्य ज्ञानस्य द्वे नामनी । [ निश्चय के २ नाम । ] For Private and Personal Use Only
SR No.020028
Book TitleAmar Kosh
Original Sutra AuthorN/A
AuthorBramhanand Tripathi
PublisherChaukhamba Surbharti Prakashan
Publication Year1982
Total Pages304
LanguageHindi
ClassificationDictionary
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy