________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६२
अमरकोषः
[ तृतीयकाण्डे 'उपज्ञोपक्रमान्तश्च तदादित्वप्रकाशने। कोपज्ञकोपक्रमादि, कन्थोशीनरनामसु ॥२८॥ भावे नणकचिद्भ्योऽन्ये समूहे भावकर्मणोः । भदन्तप्रत्ययाः पुण्यसुदिनाभ्यां त्वहः परः ॥ २९ ॥ 'क्रियाव्ययानां भेदकान्येकत्वेऽप्युक्थतोटके । चोचं पिच्छं गृहस्थूणं तिरोटं मर्म योजनम् ॥३०॥ राजसूयं वाजपेयं गद्यपद्ये कृतौ कवेः । माणिक्यं भाष्यसिन्दूरचीरचीवरपिञ्जरम् ॥ ३१॥ लोकायतं हरितालं विदलं स्थालबालिकम् ।
( इति क्लोबसंग्रहः) ( १ ) उपज्ञा उपक्रमः च अन्ते यस्य स तत्पुरुषः स्यात् । कस्य = प्रजापतेः उपज्ञा = कोपज्ञम् । कोपक्रमम् । अर्थात् सृष्टिः । सौशमीनां कन्था सौशमिकन्थम् । बाह्निककन्थम् । उशीनर इति किम् ?–दाक्षिकन्था । नामसु किम् ?-वीरणकन्था । [ उपज्ञान्त, उपक्रमान्त तत्पुरुष नपंसक होता है—'कोपशं' 'कोपक्रम' आदि शब्द नपुंसक होते हैं । ] ( २ ) नश्च णश्च कश्च चिच्च, एभ्योऽन्ये ये क्त, तव्य, तव्यत् आदयः अदन्ताः कृत् प्रत्यया भावे विहितास्तदन्तं नाम क्लीबे। तथा च समूहे भावेऽर्थे च येऽदन्तास्तद्धिताः प्रत्ययास्तदन्तं नाम क्लीबे । यथा-भूतम्, भव्यम्, भवितव्यम्, भवनीयम् । ब्रह्मभूयम्, सांराविणम्, सां कूटिनम् । नणकेति किम् ?-यज्ञः, यत्नः, विघ्नः, न्यादः। समूहे तद्धिता:-मैक्ष, काकं, कंदायं, गोत्वम्, मार्दवं, स्तेयम् । पुण्याहं, सुदिनाहम् । [ भूतं, भव्यं, भवनीयम्, पुण्याहं, सुदिनाहम, आदि शब्द नपुंसक होते हैं।1 (३ ) क्रियाणाम् अव्ययानां च भेदकानि क्लीबे एकवचने च स्युः । यथा-मृदु पचति । कमनीयं प्रातः । [ क्रियाओं तथा अव्ययों के भेदकशब्द नपुंसकलिंग एकवचन में होते हैं---मृदु पचति, कमनीयं प्रातः आदि । ] ( ४ ) उक्थं । [ सामभेद ] तोटकं । [ छन्दोभेद ] । चोचं । [ केला ] । तिरीटं । [शिरोभूषण ] गृहस्थूणं । [ घर का खम्मा ] । मर्म । [ अङ्गविशेष ] योजनं । [ चार कोस ] गद्यं । पद्यं । राजसूयं । वाजपेयं । माणिक्यं । भाष्यं । सिन्दूरं । चीरं। [ वस्त्र ] चीवरं । [ मुनि बोद्धभिक्षु. वस्त्र । ] । लोकायतं । [ चार्वाक शास्त्र । ] विदलं । [ पिटारी । ] स्थालं । वाह्निकम् । [ हींग।]
इति क्लीबसङ्ग्रहः।
For Private and Personal Use Only