________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६१
लिङ्गादिसङ्ग्रहवर्गः ५ ] रत्नप्रभाव्याख्यासमेतः
'त्रान्तं सलोपधं शिष्टं रात्रं प्राक्सङ्ख्ययान्वितम् । पात्राद्यदन्तैरेकार्थो द्विगुर्लक्ष्यानुसारतः॥२५॥ द्वन्द्वैकत्वाव्ययीभावी पयः सङ्ख्याव्ययात्परः। षष्ठयाच्छाया बहूनां चेद्विच्छायं संहतौ सभा ॥ २६ ॥ शालार्थापि परा राजाऽमनुष्यार्थादराजकात् ।
दासीसभं नृपसभं रक्षःसभमिमा दिशः ॥ २७॥ आदि, अनान्त 'गमनम्' आदि नपुंसक लिंग होते हैं, किन्तु व्रश्चनः, 'नन्दनः' आदि पुल्लिंग।]
( १ ) शब्दान्तं सकारलकारोपधञ्च ( अलोऽन्त्यात् पूर्व उपधा ) ब्लीबं भवति । त्रान्तं यथा-दात्रम्, पात्रम्, वस्त्रम् । सकारोपधम्-अन्धतमसम्, विसम्, वुसम् । लोपधम्-कूलम् , तूलम्, मूलम्, शूलम्, शिष्टम्, अवशिष्टम् । सङ्ख्यापूर्वपदं रात्रात क्लीबम् । यथा-विरात्रम् । पञ्चरात्रम् । सङ्या किम् ?----अर्घरात्रः, पूर्वरात्रः । पात्रादिभिरदन्तः एकार्थो द्विगुः क्लीबे। एकार्थः किम्-पञ्चकपाल: पुरोडाशः । तद्धितार्थे द्विगुरयम् । लक्ष्यानुसारतः इति किम् ?--त्रिपुरी, त्रिबली, पञ्चपूली ।। त्रान्त-'दात्रम्' आदि, लोपध कूलम्' आदि, नपुं० होते हैं, न कि, पुत्र, काल आदि, संख्यापूर्वकशब्द नपुं० होते हैं । यथा-'त्रिरात्रम्' आदि । ] (२) एकत्वे द्वन्द्वो द्वन्द्वकत्वम् । समाहारद्वन्द्व , अव्ययीभावश्च नपुंसके स्यात् । क्रमेण-पाणिपादम् । अधिहरि । सङ्ख्याव्ययात् परः कृतसमासान्तश्च पयः क्लीबे । क्रमेण-द्विपथम्, विपथम् । सङ्ख्याव्ययात् परः किम् ?-धर्मपथः । कृतसमासान्तः किम् ?–अतिपन्थाः, सुपन्थाः। तत्पुरुषषष्ठयन्तात्परा बहूनां छाया नपुंसके स्यात् । वीनां (पक्षिणां ) छाया–विच्छायम् । षष्ठयन्तात् परो यः समूहार्थकः सभाशब्दः तदन्तस्तत्पुरुषः क्लीबे । यथा-स्त्रीसभम् । स्त्रीसमूहेत्यर्थः । असंहतोधर्मसभा, धर्मशाला। [ समाहारद्वन्द्वान्त शब्द नपुं० होते हैं । यथा-'पाणिपादम्', समासान्त पथ' शब्द नपुं० होता है-'द्विपथम्' आदि ।] ( ३ ) तदेवं विशिनष्टिशालागृहपर्यायोक्ताऽपि सभा राजशब्दवर्जितात् राजपर्यायात्, अमनुष्यात्, रक्षा पिशाचादिवाचकाच्च षष्ठयन्तात् परा तत्पुरुष क्लीवे स्यात् । यथा-नृपसभम्, दासीसभम्, रक्षःसमम्, इनसभम्, पिशाचसभम्, प्रभुसभम् । अराजकात् किम् ? राजसमा । षष्ठयन्तात् किम् ?—ईश्वरसभा। असभा। [ राज शब्द के बिना समूहार्थ सभा शब्द तत्पुरुष में नपुंसक लिंग होता है-'नृपसभं, दासीसमं, रक्षःसभम्' आदि । ]
For Private and Personal Use Only