________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६०
अमरकोषः
[तृतीयकाण्डे 'वेतालमल्लभल्लाश्च पुरोडाशोऽपि पट्टिशः । कुल्माषो रभसश्चैव सकटाहः पतद्ग्रहः ॥२१॥
(इति पुल्लिङ्गसंग्रहः) द्विहीनेऽन्यच्च खारण्यपर्णश्वभ्रहिमोदकम् । शीतोष्णुमांसरुधिरमुखाक्षिद्रविणं बलम् ॥ २२ ॥ फल-हेम-शुल्ब-लोह-सुख-दुःख-शुभाशुभम् । जलपुष्पाणि लवणं व्यञ्जनान्यनुलेपनम् ॥ २३ ॥ कोट्याः शतादिःसङ्ख्याऽन्या वा लक्षा नियुतं च तत् । द्वयच्कमसिसुसन्नन्तं . यदन्नान्तमकर्तरि ॥ २४ ॥ ( १ ) वेतालः। [ भूतप्रेतादिभेद । ] मल्लः। [ पहलवान । ] मल्लः । [ भाला। ] पुरोडाशः । [ हवि । ] पट्टिशः । [ शस्त्रभेद । ] कुल्माषः । [ उबाले धान्य । ] रमसः । [ वेग । ] कटाहः । [ कड़ाही । ] पतद्ग्रहः । [ पीकदान।]
इति पुल्लिङ्गसग्रहः । (२) द्विहीने (स्त्रीपुंसाभ्यां हीने) 'क्लीबे' अधिकारोऽयम् । पूर्वोक्तसङ्ग्रहाच्छेषो बाधकविषयादन्यत् क्लीबे स्यात् । यथा-खम् [ आकाश ] अरण्यम् । [ वन ] श्वभ्रम् । [ बिल ] हिमम् । [ बर्फ ] उदकम् । [ जल ] शीतम् [ठण्डा] उष्णम् । . [ गरम ] मांसम् [ मांस ] रुधिरम् [ खून ] मुखम् । [ मुख ] अक्षि । [ आँख ] द्रविणम् । [ धन ] । बलम् । [ ताकत या सेना ] फलम् । [ फल ] हेम । [स्वर्ण] शुल्वम् [ ताँबा ] लोहम् । [ लोहा ] सुखम् । [ सुख ] दुःखम् । [ दुःख ] शुभम् [ शुभ ] अशुभम् । [ अशुभ ] । जलम् । [ पानी ] पुष्पम् । [ फूल ] लवणम् । [नमक ] व्यञ्जनम् । [ भोजन पदार्थ ] अनुलेपनम् । [ शृंगार सामग्री ] एतानि सपर्यायाणि नपुंसके । ( ३ ) कोटि सङ्ख्यां विहाय शतादिकासंख्या नपुंसके भवति । यथा-शतम्, सहस्रम्, अयुतम्, नियुतं, प्रयुतम्, अर्बुदम्, लक्षं क्लीबे लक्ष्या स्त्रियाम् । लक्षस्य पर्यायो नियुतम् क्लीबे न तत्र विभाषा। [ कोटि ( करोड़) संख्या को छोड़कर 'शतम्' आदि संख्या नपुंसकलिंग में होती है। केवल लक्षं ( नपुं० ) लक्षा ( स्त्री)। ] ( ४ ) असन्तम् इसन्तम् उसन्तम् अन्नन्तञ्च द्वयक क्लीबे भवति । यथा असन्नन्तम्-तेजः, पयः, यशः । इसन्तम्-सर्पिः, हविः । उसन्तम----आयुः, वपुः । अन्नन्तम्-कर्म, चर्म, वर्म । कतवजितेऽर्थे यद् अनान्तं नाम तत् क्लीबे स्यात् । यथा-गमनं, दान, रमणम् । कर्तृरि तु नन्दनः, रमणः । [ असन्त ‘पयः' आदि, इसन्त ‘सर्पिः' आदि, उसन्त 'वपुः' आदि, अन्नन्त 'चर्मन्
For Private and Personal Use Only