________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५६
अमरकोषः
[ तृतीयकाण्डे 'स्त्रीभावादावनिक्तिण्वुल्णच्ण्वुच्क्यव्युजिजनिशाः ॥४॥ 'उणादिषु निरूरीश्च ड्याबूङन्तं चलं स्थिरम् । तत्क्रीडायां प्रहरणं चेन्मौष्टा पाल्लवाणदिक् ॥५॥ घनो अः सा क्रियाऽस्यां चेदाण्डपाता हि फाल्गुनी । श्यनम्पाता च मृगया तैलम्पाता स्वधेतिदिक् ॥६॥
स्त्री स्यात् काचिन्मृणाल्यादिविवक्षापचये यदि ।
लिङ्का शेफालिका टीका धातको पञ्जिकाढकी ॥७॥ द्विपदिकां ददाति । गार्गिकया। काठिकया। शेष्योपाध्यायिका। [वलन्तादि प्रत्ययान्त शब्द स्त्री लिंग होते हैं । यथा—ग्रामता, जनता आदि । ]
(१) स्त्रियाम, इत्यधिकारे भावे आदिना अकर्तरि कारके च ये अन्यादयः प्रत्ययाः तदन्तं स्त्रियाम् स्यात् । यथा-अकरणिः अजननिः । उभयत्रापि अनिः । कृतिः, धुतिः, मतिः । स्त्रियां तिन् इति क्तिन् । प्रच्छर्दिका, अत्र ण्वुल् । व्याक्रोशी, णच् । शायिका, ण्वुच् । पर्यायार्हा, क्यप् । कारणा, कामना, युच् । कां त्वं कारिं गणि वा कार्षीः, इञ् । छिदा, अङ् । ग्लानिः, निः। क्रिया, इच्छा, शः । [क्तिन् प्रत्ययान्तादि शब्द स्त्री लिंग होते हैं। यथा-कृतिः, मतिः आदि । । (२) उणादिषु न्यन्तम्, ऊदन्तम्, ईदन्तञ्च स्त्रियाम् । नि:-श्रेणिः, श्रोणिः, द्रोणिः । धरणिः, धमनिः। सरणिः । कर्षः। चमूः। अवीः । तरीः । ड्यन्तम् आबन्तं यच्चलं स्थिरं वा तत् स्त्रियाम् भवति । चलं-रमा, वामोरूः। स्थिरं-कदली, कन्दली, खट्वा, अलाबूः । [ङीप, आप, ऊ प्रत्यायन्त शब्द स्त्रीलिंग होते हैं। ] ( ३ ) 'तदस्यां प्रहरणम्' इति क्रीडार्थे णः । मुष्टिः प्रहरणम् अस्याम्-मौष्टा । पल्लवा, मौसला, दाण्डा, इत्यादि ज्ञेयम् । [ मौष्टा, पाल्लवा, दाण्डा आदि शब्द स्त्रीलिङ्ग होते हैं । ] ( ४ ) घञः सास्यां क्रियेति अः' इति आन्तं स्त्रियाम् । यथा-दण्डपातोऽस्यां वर्तते-दाण्डपाता-फाल्गुनी । श्येनम्पाता-मृगया। तैलम्पाता–स्वधा । [ दाण्डपाता, श्यैनम्पाता, तैलम्पाता आदि शब्द स्त्रीलिङ्ग होते हैं । ] ( ५ ) अपचयस्य विवक्षायां स्त्रीत्वम् । यथाअल्पं मृणालं मृणाली, कुम्भी, प्रणाली, मुसली, छत्री, पटी, तटी, मठी। काचित् इति किम् । अल्पो वृक्षो वृक्षकः । [ मृणाली, घटी, कुम्भी आदि शब्द स्त्रीलिङ्ग होते हैं । ] ( ६ ) लङ्कादयः स्त्रियाम् । लङ्का, शेफालिका, टोका, धातकी, पञ्जिका, आढकी। इत्यादयः । [ लङ्का, शाखा, कुलटा, शाकिनी, शेफालिका, धातकी, आदि शब्द स्त्रीलिंग होते हैं। ]
For Private and Personal Use Only