________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२८
अमरकोषः
[तृतीयकाण्डे 'अन्तराभवसत्त्वेऽश्वे गन्धर्वो दिव्यगायने। कम्बुर्ना वलये शङ्के, द्विजिह्वौ सर्पसूचकौ ॥ १३९ ॥ पूर्वोऽन्यलिङ्गः प्रागाह पुंबहुत्वेऽपि पूर्वजान् ।
(इति बान्ताः) "कुम्भौ घटेभमूर्धांशा, 'डिम्भौ तु शिशुबालिशौ ॥ १४० ॥
स्तम्भौ स्थूणाजडीभावौ, 'शम्भू ब्रह्मत्रिलोचनौ । "कुक्षिभ्रूणार्भका गर्भा, १°विस्रम्भः प्रणयेपि च ॥१४१॥ १'स्याद्भयाँ दुन्दुभिः पुंसि स्यादक्षे दुन्दुभिः स्त्रियाम् । १२स्यान्महारजने क्लीबं कुसुम्भं करके पुमान् ॥ १४२ ॥ .
( १ ) अन्तरोभवसत्त्वे अश्वे दिव्यगायने च गन्धर्वः । विशेषः-'गन्धर्वः पशुभेदे स्यात् पुंस्कोकिलतुरङ्गयोः । अन्तराभवसत्वे च गायने खेचरे पि च ॥ इति मेदिनी। तत्र अन्तराभवसत्वं व्याकरोति--'अन्तरा मरणजन्मनोर्मध्ये भवं सत्वं यातनाशरीरम्' । [ अश्व आदि का नाम गन्धर्व । ] ( २ ) वलये शवे च कम्बुः स ना। [ वलय, शंख का नाम कम्बु । ] ( ३ ) सर्प सूचके च द्विजिह्वः । [ सर्प, सूचक का नाम द्विजिह्व। ] ( ४ ) प्राग्वाची पूर्वशब्दो वाच्यलिङ्गः। स यदा पूर्वजान् प्रति प्रयुज्यते तदा पुंसि बहुत्वे चेति ।
विशेषः-पूर्वगन्धर्वशब्दो विश्वकोषे च पवर्गीयत्वनोपलभ्येते हैमस्तु दन्त्योष्ठान्तेषु स्वीकरोति ।
इति बान्ताः शब्दाः । [ पूर्व शब्द ] ( ५ ) कुम्भकर्णस्य सुते वेश्यापतौ घटे राशिभेदे द्विपाङ्गे गुग्गुले च कुम्भः । [ घट, राशिभेद का नाम कुम्भ । ] ( ६ ) शिशौ बालिशे च डिम्भः । [शिशु, बालिश का नाम डिम्भ । ] ( ७ ) स्थूणायां जडीभावे च स्तम्भः । [ स्थूणा, जड़ता का नाम स्तम्भ । ] (८) ब्रह्मणि शिवे च शम्भुः। [ ब्रह्मा, शिव, का नाम शम्भु । ] (९) कुक्षौ भ्रूणे अर्भके च गर्भः । [ कुक्षि, भ्रूण, अर्भक का नाम गर्भ । ] (१० ) केलिकलहे विश्वासे प्रणये वधे च विस्त्रम्भः। [ प्रणय आदि का नाम विस्रम्म । ] ( ११ ) भेर्यां दुन्दुभिः पुंसि । अक्षे दुन्दुभिः स्त्रियाम् । [ भेरी, अक्ष का नाम दुन्दुभि । ] ( १२ ) महारजने कुसुम्भं क्लीबे, तदेव करके पुंसि भवति । [ महारजन, करक का नाम कुसुम्भ । ]
For Private and Personal Use Only